SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ PROGRAMIRREEDS ससैन्यस्तत्र गमनाय समुधुक्तवान् / तत्रावसरे पवनञ्जयेनोक्तम्-हे पितः! एतदर्थ त्वया कि गम्यते ? / अहमेव तत्र गत्वा रावणवैरिणं वरुण विजित्य सत्वरमत्रागमिष्यामि / ततः पित्राऽऽदिष्टः स सज्जितसैन्यो मातरं नमस्कृत्याञ्जनां तु क्रूरदृक्कोणेन किश्चिदीक्षमाणः प्रतस्थे / तदा तयोक्तम्-हे नाथ ! मया किमपराद्धं येन त्वं मयि रुष्टोऽसि / सर्वे त्वयाऽऽलापिताः / मया सह कथं न पे ? अहं निरपराधाऽस्मि / मयि प्रसीद, तव पथि कुशलं वर्तताम् / तथा कार्यसिद्धि विधाय सत्वरमिहागच्छेरित्वं कल्याण वचो ब्रुवाणां तामगणयन्नेव सोऽचलत् / ततोऽञ्जनापि दैवदोषं ददाना पतिविरहादतिदुःखिनी निजावासमागता / इतश्च प्रस्थितः पवनञ्जयोऽपि सन्ध्यासमये मानससरोवरोपरि सपरिवारस्तस्थौ / तत्रावसरे काश्चिद्वियोगिनीमतिदुःखिनी पुरःस्थितं तन्तुजालमश्नन्ती शीतमपि दहनं मन्यमानां चन्द्रिकामपि तापकरी पश्यन्ती करुणमत्युच्चै रुदतीं विदूरे प्राणनाथं वीक्षमाणां चक्रवाकी सोऽपश्यत् / तां तादृशीमालोक्य स मनसि व्यचिन्तयत् / अहो! इयञ्चकोरी सकले दिने पतिसङ्गता तत्सुखमनुभवति, केवलं रात्रावेव पतिवियुक्ता यद्येवं दुःखम्भजते, तर्हि आजन्मपरित्यक्ता मत्पत्नी कीदृशी दु:खिनी स्यात् / / अद्य गमनसमये तया भणितोऽपि नाहं किमप्यूचे / सा कथमात्मानं धर्तुं शक्ष्यति ? | विरहपीडिता सा महादुःखमनुभवन्ती नूनं मरिष्यति / इत्थं पश्चात्तपमानं तम्प्रहसितोऽवक् / हे मित्र ! त्वं पक्षितोऽपि निकृष्टोऽसि त्वत्परिणयस्य वर्षाणां द्वाविंशतिर्जाता / कदाप्येकदा सा स्वयाऽऽलापितापि न / त्वद्विरहेण नूनं म्रियमाणा वर्तते / तस्याः कोऽप्यपराधो नास्ति / हे मित्र ! इदानीमपि तत्र गत्वा तामाश्वासय / ततो निजाभिप्रेत मित्रवाक्यमाकर्ण्य सर्वैरप्यलक्षितः स प्रहसितेन वदनेन साकं तस्या आवासमागतवान् / तत्र विरहातुरां तामाश्वास्य ऋतुदान दचा पश्चाच्चलितं तमवादीत्सा / त्वमेतद् गुप्तं सर्व विधाय गच्छसि / माता ते मामपवदिष्यति / अतो मे निजनामा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy