SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ४क्षणे ॥८९॥ श्रीवीर चरित्रे त्रिशलाविलापाः PARELI यन्मम जीवितं गतं ?, सख्यः कथयन्ति-हे सखि ! शान्तममङ्गलं, तव गर्भस्य कुशलं वर्तते ?, साऽऽह-हे सख्यः ! गर्भस्य कुशले किमन्यच्छोचनीयमस्ति ?, हा हता हताशेन दैवेन सर्वस्वापहारेणेत्युक्त्वा मुञ्छिता भृमौ पतिता, सखिकृतशीतलोपचारैलब्धचैतन्या विलपति स्म, शून्यचित्ता चिरं तिष्ठति, बहुपृष्टा च सगद्दं गर्भस्वरूपं वक्ति, पुनः पतिता कृतोपचारा समुत्तिष्ठति विल-| पति च, तद् दृष्ट्वा विलपति च सखिमुखः सकलोऽपि परिकरः, हा हा किं चके वक्रेण देवेन अस्मत्स्वामिन्याः ?, हा कुलदेव| देव्यो यूयं क गताः यदुदासीनास्तिष्ठथ ? इति, तथा च कुलवृद्धा उपयाचितमन्त्रतन्त्रशान्तिकपौष्टिकादीनि कार्याणि कारयन्ति, पृच्छन्ति च निमित्तज्ञान् , निषेधयन्ति च नाटकानि, गाढशब्दवचनान्यपि निवारयन्ति, सकललोकसहितो राजाऽपि शोकाकुलो जातः, मन्त्रीश्वराद्याः किंकर्तव्यतामूढा जाताः । अत्रान्तरे (तंपिय सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजस्य वरभवनं-गृहं | | (उवरयमुइंगतंतीतलतालनाडइज्जजणमणुज्जं) उपरतं-निवृत्तं मईलः तन्त्री-वीणा तला-हस्ततलाः तालाः-कांस्यप्रभवाः नाटककारकाणि पात्राणि तेषां मनोज्ञत्वं यस्मात् , अत एव (दीणमणं विहरइ) दुःखितं व्यग्रचेतस्कं आस्ते, तच्चैवम्-सकलं शून्यमिव शोकस्य राजधानीव श्रिया त्यक्तमिव दुःखस्य भाण्डागारमिव उद्वेगस्य आकर इव सर्वदुःखानां सङ्कर इव विस्मृतभोजनाच्छादनसम्भाषणशयनादिव्यवहारमिव विहितसर्वशोभापहारमिव, किंच-तत्र निःश्वासरेवोत्तरदानं, अश्रुपातैरेव मुखधावनं, शून्यचित्तोपवेशनैरेव शरीरस्थितिबेलातिवाहनं चेति ॥९२॥ * तए णं से समणे भगवं महावीरे (माऊए अयमेयारूवं)| मातुरिममेवंविधं पूर्वोक्तस्वरूपं यावत् *अन्भत्थियं पत्थियं मणोगयं (संकप्पं समुप्पन) सङ्कल्पं समुत्पन्नमवधिज्ञानेन (वियाणित्ता) विज्ञाय भगवान् चिन्तयतिः-किं कुर्मः? कस्य वा ब्रमो?, मोहस्य गतिरीदृशी। दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः | malRITISHALINImamal
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy