SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ४क्षणे 1120 11 वीरो (माउअणुकंपणट्ठाए ) मातुरनुकम्पार्थ, मयि चलति मातुः कष्टं भविष्यतीति मातुर्भक्त्यर्थं मद्वदन्येनापि मातुर्भक्तिः | कर्त्तव्येति दर्शनार्थं च (निच्चले ) निश्चलः (निप्फंदे ) निस्स्पन्दः, किञ्चिच्चलनेनापि रहितः, अत एव (निरेयणे) निष्कम्पः, (अल्लीणपल्लीणगुत्ते यावि) ईषल्लीनो अङ्गगोपनतः अतिलीनः उपाङ्गगोपनतः, अत एव गुप्तः (होत्था) अभवत् अत्र कविः - किं मोहराजविजयाय एकान्ते विचारं करोति ?, किं वा परमपदसाधनाय अगोचरं ध्यानं करोति ?, किंवा कल्याणरसं साधयति ?, किं कामनिग्रहाय विचारयतीत्युत्प्रेक्षां करोति ।। ९९ ।। (तएणं ती से) ततस्तस्याः (तिसलाए खत्तियाणीए ) त्रिशलाक्षत्रियाण्या (अयमेयारूवे) अयं एवंविधो (जाव संकप्पे ) यावन्मनसि सङ्कल्पः - चिन्तारूपः (समुप्पजित्था ) समुत्पन्नः, (हडे मे से गन्भे) स मम गर्भः किमपहृतः केनचिद्देवादिना ? (मडे मे से गब्भे) किंवा मृतः स गर्भः (चुए मे से गन्भे) किंवा च्युतः सजीव पुद्गलपिण्डात् परिभ्रष्टः (गलिए मे से गभे) किं वा गलितः द्रवत्वं प्राप्तः सन, (एस मे गन्भे ) स मम गर्भः - यस्मात् कारणात् एष मे गर्भः (पुविं एइ) पूर्वमेजति कम्पते (इयाणिं नो एयइ) अधुना नैजति न कम्पते ( चिकटूड) इतिकृत्वा (ओहयमणसंकप्पा ) मलिनीभृतमनःसङ्कल्पा ( चिंतासोगसागरसंपविट्ठा) चिन्तयोत्पन्ने शोकसमुद्रे प्रविष्टा - निमग्रा ( करयल पल्हत्थमुही) अतो हस्ततले स्थापितमुखी (अट्टज्झाणोवगया) आर्त्तध्याने प्राप्ता (भूमीगयदिठिया) भूमिसम्मुखमेव वीक्षमाणा किंकर्त्तव्यतामूढतया (झियायइ) ध्यायति, तद्यथा - यदि मम गर्भस्य किमपि न जातं तदाऽभाग्याऽहं न हि भाग्यहीनस्य गृहे चिन्तामणिस्तिष्ठति, न हि दरिद्रस्य गृहे रत्ननिधानं प्रकटीभवति, न हि मरुभूमौ कल्पवृक्षः प्रादुर्भवति, न हि पुण्यहीनस्यामृतपानेच्छा पूर्यते, हा दैवेन वक्रेण किं कृतं ? यन्मम मनोरथवृक्षो मूलादुन्मूलितः, लोचनयुगलं दत्त्वापि पश्चा श्रीवीर चरित्रे गर्भनिश्चलता ।। ८७ ।।
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy