SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां |श्रीवीर चरित्रे मातापित्रो र्नाम्नि मनोरथः ॥८६॥ न्तादयः मुक्ताफलानि शङ्खा-दक्षिणावर्ताः शिला-राजपट्टादिकाः प्रवालानि-रक्तरत्नानि पद्मरागादीनि, आदिशब्दाद्वस्त्रकम्बलादयत्तैः पुनः (संत) सद्-विद्यमानं, न तु इन्द्रजालसदृशं (सारसावइज्जेणं) यत् प्रधानद्रव्यं तेन (पीइसक्कारसमुदएणं) पुनः प्रीतिः-मनःसन्तोषः सत्कारः-स्वजनादिमिः कृतो वस्त्रादिभक्तिविशेषः,तत्समुदायेन च ज्ञातकुलं (अईवर अभिवड्ढित्था) अतीव अभिवृद्धम् । (तएणं) तदनन्तरं (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (अम्मापिऊणं) | मातापित्रोः (अयमेयारूवे) अयमेवंविधो (अज्झथिए) अध्यवसायो (चिंतिते) चिन्तितो मनसि (पत्थिए) प्रार्थितः। *मणोगए (संकप्पे समुप्पज्जित्था) सङ्कल्पः समुत्पन्नः ॥८७।। सः कः?- (जप्पमिदं च णं) यतःप्रभृति (अम्हं) अस्माकं (एस दारए) एष दारकः (कुच्छिसि) कुक्षौ (गब्भत्ताए) गर्भतया (वकंते) उत्पन्नः (तप्पभिई च णं) तद्दिनादारभ्य (अम्हे) वयं (हिरण्णेणं) हिरण्येन (वड्ढामो) वर्धामहे (सुवण्णेणं० धणेणं० धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्ढामो, विपुलधणकणगरयणमणिमुत्तियसंग्वसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीईसकारेणं अईवर अभिवड्ढामो) एवं सुवर्णेन यावत् प्रीतिसत्कारसमुदायेन अतीवाभिवर्द्धमहे, (तं जया णं) तस्मात् कारणाद्यदा (अम्ह) अस्माकं (एस दारए) एष दारको | (जाए भविस्सइ) जातो भविष्यति (तया णं) तदा (अम्हे एयस्स दारगस्स) वयमेतस्य दारकस्य (एयाणुरूवं) एतद्धनादिवृद्धेरनुरूपं-सदृशं (गुण्णं) गुणेभ्यः आगतं, अत एव (गुणनिष्फन) प्रधानं (नामधिजं) नाम (करिस्सामो) करिप्यामः, किं तदित्याह-(वद्धमाणु) वर्द्धमान इति ।।९०|| (तए णं) ततः (समणे भगवं महावीरे) श्रमणो भगवान् महा AIRArtime IAnime lingI NS ॥८६॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy