________________
श्रीवीर
श्रीकल्पकौमुद्यां ४क्षणे.
चरित्रे
निधानसंहरणं
महावीरे) श्रमणो भगवान् महावीरो तंसि (नायकुलंसि साहरिए) राजकुले संहृतः (तप्पमिदं च ण) तद्दिनादारभ्य | *बहवे (वेसमणकुंडधारिणो) धनददेवस्य कुण्डः-आज्ञा तद्धारकाः (तिरियजभगा देवा) तिर्यग्लोकवासिनो जृम्भका देवाः | (सकवयणेणं) इन्द्रेण धनदाय धनदेन च जृम्भकेभ्य उक्तमिति, (से) अथ (जाइं इमाई) इमानि यानि (पुरा पोराणाई) पुरा |-पूर्व स्थापितत्त्वेन चिरकालीनानि (महानिहाणाई) महानिधानानि भूमिस्थितसहस्रादिमितद्रव्यसमूहाः, न तु सहस्रमध्यवर्तिनः, (भवंति) भवन्ति, (तंजहा) तानि यथा-(पहीणसामिआई) अल्पिष्ठस्वामिकानि (पहीणसेउआई) अल्पिष्ठोपरिधनसेचकानि | (पहीणगुत्तागाराई) अल्पिष्ठस्वामिवंशगृहाणि (उच्छिन्नसामिआई) सर्वथा क्षयगतस्वामिकानीत्यादि उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराइं (गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसनिवेसेसु) ग्रामा-राजादिकरोपेताः आकरा लोहादीनां नगराणि--राजादिकररहितानि खेटानि-धूलिपाकारयुक्तानि कर्बटानि-कुत्सितनगराणि मडम्बानि-चतुर्दिशं | गव्यूतद्वयोर्ध्वग्रामाणि द्रोणमुखानि-जलस्थलमार्गद्वयान्वितानि पत्तनानि-जलस्थलमार्गयोरेकतरमार्गयुक्तानि आश्रमाः-तीर्थमुनि| स्थानानि संबाहाः-समभूमौ कर्षणं कृत्वा येषु कृषिका रक्षार्थ दुर्गभूमिषु धान्यानि संवहंति, सन्निवेशाः-सार्थकटकादीनां स्थितिस्थानानि (सिंगाडसु वा तिएसु वा) शृङ्गाटकफलाकारत्रिकोणस्थानं त्रिक-मार्गत्रयमेलकः (चउक्केसु वा) मार्गचतुष्कमेलकः | (चच्चरेसु वा) बहुमार्गमेलकः (चउम्मुहेसु वा) चतुर्मुख-देवकुलादि (महापहेसु वा) राजमार्गः (गामट्ठाणेसु वा) | ग्रामोद्धसभूमयः, एवं (नगरट्ठाणेसु वा) नगरोद्वसभूमयः (गामणिद्धमणेसु वा) ग्रामजलनिर्गमाः, खाला इति प्रसिद्धाः, एवं (नगरनिद्धमणेसु वा) नगरजलनिर्गमाः (आवणेसु वा) हट्टाः (देवकुलेसु वा) यक्षादिदेवगृहाणि (सभासु वा)
RAHARIPARININFINITIA MIRRIP IRRITAMILLAINTAININADIATRAMPm
॥८४॥