SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प श्रीवीर कौमुद्यां चरित्रे खम ४क्षणे ॥७९॥ फलानि प्राप्ते भाण्डागारयुक्तमधुरभाषिणीस्त्रीलाभः२३ दधिलाभे दधिभक्षणे वा अर्थप्ताप्तिर्यशोवृद्धिश्च२४ अशोककणवीरपुष्पितपलाशशाल्मलीवृक्षादिके दृष्टे शोकः२५ निर्बुमाग्निदर्शने पाने धूमपाने च शुभं२६ सिंहहस्तिपुरुषग्रहादयो यं पद्भ्यां कर्षयन्ति स बन्धनात् मुच्यते, अवन्धनस्तु बध्यते२७ जिहाशिरश्छेदे राज्यं लिङ्गच्छेदे सौभाग्यं कर्णनासिकाछेदे मरणं च स्यात्२८ स्वप्ने प्रचुरे घृते दृष्टे प्राप्ते वा यशः स्यात् , क्षीरानेन च सह घृते भक्षिते शुभं स्यात्, न तु केत्रले भक्षिते२९ स्वमे हस्तिगोवृषभप्रासादपर्वतफलितवृक्षाघारोहणे राज्यादिसुखसंपत्प्राप्तिः३० स्वमे देवगुरुदुग्धदधिताम्बूलवस्खाममुक्ताफलचन्दनशङ्खदीपपुष्पफलकमलकन्याच्छत्रध्वजादीनां दर्शनं शुभकृत्३१ आम्रराजादनीनालीकेरीकदल्यादयः पुष्पिताः फलिताश्च दृष्टाः शुभाः३२ स्वप्ने यः प्रासादमारुह्य भुते समुद्रं च तरति स राजा स्यात्३३ स्वप्ने यो रोदिति स्वयं मृतं च पश्यति परस्त्रियाऽऽलिङ्गितं पश्यति स सर्वसुखलक्ष्मी प्राप्नोति२४, स्वप्ने दुग्धदधिघृततैलमधुकुङ्कुमादिमियः स्वं अभ्यङ्गितं पश्यति तस्य व्याधिर्भवति३५ वमनमूत्र| विष्ठावीर्यरुधिरमदिरादि परमानादि पिबति वा तेन लिप्यते वा तस्य धनविद्यावृद्धिर्भवति३६ स्वप्ने सर्पवृश्चिककीटकश्वापदपक्षिप्रभृतिभिर्दष्टो हृदये च न भीतः स वित्तं प्राप्नोति३७ शिरःकूर्चशरीरादीनां मुण्डने दृष्टे रोगेण मरणं स्यात्३८, सर्पगृहगोधाकर्णशृगालीकीटिकादीनां कर्णप्रवेशे दृष्टे कर्णरोगेण म्रियते३९ स्वप्ने स्वद्वापट्टकघोटकगृहस्वशरीरादिज्वलने दृष्टेऽनर्गललक्ष्मीः प्राप्नोति४०, स्वप्ने यः कश्चिन्नागवल्लीकर्पूरागुरुपुष्पमन्त्रादीन् ददाति तदा धनप्राप्तिः४१ स्वप्ने यदि परिहितश्वेतवस्खा स्त्री आलिङ्गयति तदा तस्य गृहे लक्ष्मीर्वसति४२, रक्तकृष्णवस्त्रधरा स्त्री आलिङ्गयति तदा रोगो मृत्युर्वा भवति४३ पितृतर्पणविवाहाद्युत्सवश्राद्धादिसांवत्वरिककृत्येषु भोजनं करोति स म्रियते४४ स्वप्ने हसिते गाने विवाहाद्युत्सवे च शोकः, पठिते क्लेशः, BHAmaree ॥७९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy