________________
श्रीवीरचरित्रे
खम
फलानि
श्रीकल्प-|श्रावणयोग्यो न भवति तदा गोकर्णेऽपि कथनीयः६ शुभं स्वप्नं दृष्ट्वा न सुप्यते, यदि च सुप्यते तदा तस्य फलं न प्राप्यते, तेन कौमुद्यां देवगुरुस्तुतिगीतादिमी रात्रिरतिक्रम्या७ प्रथमं शुभं स्वप्नं दृष्ट्वा पश्चादशुभं पश्यति तस्याशुभस्य फलं भवति, न तु शुभस्य, तथा ४क्षणे
पूर्वमशुभं दृष्ट्वा पश्चाच्छुभं पश्यति तदा शुभस्य फलं स्यात्, न त्वशुभस्य८,स्वप्ने मनुष्यसिंहहस्तितुरङ्गमवृषभगोसिंहीप्रमुखैयोजितरथा॥ ७८॥
रूढो गच्छति स राजा भवति९ स्वप्ने यः सूर्यचन्द्रयोर्विम्बं गिलति समुद्रं च पिबति स जातिहीनो दीनोऽपि समुद्रपर्यन्तपृथिव्या राजा |स्यात् , दृष्टं तु धनधान्यपुत्रादिलाभदं स्यात् १० स्वमे यः श्वेतगजारूढो नदीतटे शालिभोजनं करोति स जातिहीनोऽपि स्मस्त
पृथिव्या राजा स्यात् ११, स्वप्ने यः गजाश्ववाहनासनगृहवस्त्राभरणमणिमुक्ताफलसुवर्णरूप्यसर्वधातुपात्रशस्त्रादीनां गमनं पश्यति | तस्य राजभयं शोको बन्धुविरोधो धनहानिमहत्त्वहानिर्मरणान्तकष्टं च स्यात् १२ स्वप्ने निजभाया हरणे दृष्टे धननाशः परामवे क्लेशः, गोत्रस्त्रीणां हरणे पराभवे च वधवन्धौ स्यातां१३, स्वप्ने यं श्वेतसो दक्षिणभुजायां दशति स पञ्चरात्रेण सुवर्णसहस्रं प्रामोति१४ स्वप्ने निजशय्योपानदादीनां हरणे दृष्टे सति स्त्री प्रियते स्वशरीरे च निविडा पीडा स्यात् १५ स्वप्ने मनुष्यस्य मस्त-| कभक्षणे राज्यं चरणभक्षणे सुवर्णसहस्रं मांसभुजभक्षणे पञ्चशतीं सुवर्णानां प्रामोति१६ स्वप्ने द्वारार्गलापरिघशय्यादोलापादुका|गृहादीनां भङ्गे दृष्टे स्त्रीनाशः स्यात्१७ स्वप्ने समुद्रसरोवरजलसम्पूर्णनदीमित्रमरणे दृष्टे अचिन्तितं पुष्कलं च धनं प्राप्नोति |१८ स्वप्ने छगणयुक्तं कलुषं औषधयुक्तं चात्युष्णं जलं पिबति सोऽतीसाररोगेण म्रियते१९ स्वप्ने देवप्रतिमायाः पूजास्नात्रनैवेद्यादिकढौकनादिके कृते दृष्टे च सर्वतो धनवृद्धिः सर्वार्थसिद्धिश्च स्यात् २० स्वप्ने स्वहृदये कमले दृष्टे कुष्ठरोगविनष्टदेहः शीघं म्रियते२१ वल्लीवल्कलरज्जुसर्पकंचुकीस्वतन्तुप्रमुखैर्वेष्टितं शरीरं पश्यति तस्य मरणं२२ स्वप्ने अश्विनीकुर्कुटीक्रौंचीप्रमुखे
॥ ७८॥