________________
श्रीकल्पकौमुद्यां
श्रीवीर
चरित्रे सुमरपंचशती
३क्षणे
IIIIIIIIIm
सर्वेषामस्याः परिभोगो भवत्विति बुझ्या शय्यां विचाले मुक्त्वा कृततत्संमुखपादाः सुप्ताः, प्रभाते च प्रच्छनमुक्तपुरुषैः राज्ञे यथावत् स्वरूपे कथिते कथमेते युद्धादि करिष्यन्तीति निर्भय॑ निष्कासिताः इति ।। ततस्ते सर्वस्समतमेकमग्रे कृत्वा (जेणेव) यत्र | (बाहिरिआ उबट्ठाणसाला) बाह्योपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्र च सिद्धार्थो राजा (तेणेव उवागच्छति) तत्रोपागच्छन्ति (उवागच्छित्ता) उपागत्य च (करयलपरिग्गहिअं) यावन्मस्तकेऽञ्जलिं कृत्वा (सिद्धत्थं वत्तियं) सिद्धार्थक्षत्रियं 'दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भृतसत्वकरुणादानैकशौण्डो भव । भोगाढयो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीव कीर्तिमान भव सदा कोटिंभरस्त्वं भव ॥१॥ अत्र 'कोटिंभर' इति प्रयोगस्तु संज्ञात्वविवक्षया 'संज्ञायां भृत्वि'त्यादिना खे विश्वंभरवत् साधुः, एवं चिन्त्यत्वेन बदन सुबोधिकाकारस्तु वैयाकरणप्रवर्तकविवक्षाज्ञानविकलो बोध्य इति । कल्याणमस्तु नरराज ! सदा जयोऽस्तु, वैरिक्षयोऽस्तु शिवमस्तु धनागमोऽस्तु । सबुद्धिरस्तु सुतजन्मसमृद्धिरस्तु, युष्मतकुले गुरुजिनेश्वरभक्तिरस्तु ॥२॥ इस्याद्याशीर्वादपूर्वकं (जएणं विजएणं) स्वदेशे जयेन परदेशे विजयेन च (वद्धाविति) तं वर्द्धस्वेति कथयन्ति ॥६८॥
[महोपाध्यायश्रीधर्मसागरगणिशिष्यश्रुतसागरशिष्यशान्तिसागरकृतायां कल्पकौमुद्यां तृतीयः क्षणः)
MARATRANEND
||७५॥
RIKA