________________
श्रीकल्पकौमुद्यां ३क्षणे ॥७४॥
हृष्टतुष्टाः चित्ते आनन्दिताः मेघधाराहतकदम्बवृक्षपुष्पमिव समुच्छ्रितरोमकूपाः (पहाया) गृहे चैवोत्तमं स्नानं, नदीस्नानं तु मध्यमम् । कूपे पार्थाऽधमं स्नानं, तटाके नैव कारयेत् ॥१॥ तेन गृहे एव स्नाताः (कयवलिकम्मा) निजनिजगृहेषु कृतदेवपूजाः
चरित्रे (कयकोउअमंगलपायच्छित्ता) दुःस्वप्नादिप्रतिघातार्थ कृतमपीतिलकादिकौतुकदधिक्षितादिकमङ्गलरूपप्रायश्चित्ताः (सुद्ध
स्वमपाठ
कागमन प्पावेसाई) सभायां व्यवहारे च, वैरिषु श्वशुरौकसि । आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च ॥१॥ अत एव विचित्राणि|N श्वेतानि च राजसभाप्रवेशयोग्यानि (मंगल्लाई) मङ्गलकारीणि (वत्थाई पवराई) प्रवराणि वस्त्राणि (परिहिआ) परिहितानि यः (अप्पमहग्याभरणालंकियसरीरा) भारतः स्तोकैः मूल्यतो बहुमूल्यैराभरणैरलतशरीराः (सिद्धत्थय) श्वेतसर्षपाः (हरिआलिआकयमंगलमुद्धाणा)दुर्वाश्च मङ्गलार्थ कृता मस्तके यैः (सएहिंरगेहेहितो)निजेभ्योरगृहेभ्यो (निग्गच्छंति)निर्गच्छन्ति, (निग्गच्छित्ता) निर्गत्य च (ग्वत्तिअकुंडग्गामं नगरं) क्षत्रियकुण्डग्रामनगर (मझमझेणं) मध्यंमध्येन भूत्वा (जेणेव सिद्धत्थस्स रण्णो) यत्र सिद्धार्थराजस्य (भवणवरवडिंसगपडिदुवारे) मुख्यगृहस्य मूलद्वारं (तेणेव उवागच्छंति) तत्रोपागच्छंति ॥६७॥ (उवागच्छित्ता) तत्रोपागत्य च (भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारे (एगयओ) एकत्र (मिति) मिलन्ति (मिलित्ता) मिलित्वा च सर्वे सम्मतीभवन्ति, सर्वसम्मतं हि कार्य कृतं श्रेयस्करं भवति,न तु असम्मतं कृतं, यतः-यत्र सर्वेऽपि नेतारः, सर्वे पण्डितमानिनः । सर्वे महचमिच्छन्ति, तद् वृन्दमवसीदति ॥१॥ अत्र दृष्टान्तं कथयति, यथा केचन पंचशतं मिलिताः सुभटाः अन्योऽन्यं असम्बद्धाः सेवानिमित्तं कस्यचित् राज्ञः पार्श्वे गताः, तेषु च वृद्धपरीक्षार्थ राजा मन्त्रिणा च एकैव शय्या प्रेषिता, ते च लघुत्ववृद्धत्वादिव्यवहाररहिताः अहमिन्द्रत्वं प्राप्ता अन्योऽन्यं विवादं कुर्वाणाः ॥७४ ।।