SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे ॥ ६८ ॥ उत्तीर्य च ( जेणेव ) यत्रैव च (अट्टणसाला) परिश्रमकरणशाला (तेणेव उवागच्छइ) तत्रैवोपागच्छति (उवागच्छित्ता) | उपागत्य च (अट्टणसालं अणुपविसइ) अट्टनशालामनुप्रविशति (अणुपविसित्ता) प्रविश्य च (अणेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं) अनेकानि परिश्रमकरणाय जोग्गत्ति अभ्यासः वल्गनानि - अन्योऽन्यं बाहुप्रमुखाङ्गमोटनानि मल्लयुद्धानि प्रसिद्धानि करणानि - अङ्गभङ्गविशेषास्तैः कृतैः (संते ) सामान्यप्रकारेण श्रान्तः (परिस्संते) सर्वाङ्गावयवेषु परिश्रान्तः सन ( सयपागसहस्सपागेहिं) शतवारान् विविधौषधीरसैः पक्कैः यद्वा शतसुवर्णव्ययेन पक्कैः, एवं सहस्रपाकैरपि (सुगंधवरतिलमाइएहिं ) सुगन्धवरतैलादिभिः, आदिशब्दात् घृतकस्तूरीकर्पूरोदकादिभिश्र, कीदृशैः १ ( पीणणिज्जेहिं ) रसरुधिरादिधातु| समताकरणैः (दीवणिजेहिं) उदराग्निदीपनीयैः (मयणिज्जेहिं) कामवृद्धिकरैः (विहणिज्जेहिं) मांसवृद्धिकरैः (दप्पणिज्जेहिं) बलवृद्धिकरैः (सद्विंदियगायपल्हायणिज्जेहिं) सर्वेन्द्रियाणां सर्वगात्राणां च सुखोत्पादकैः, ईदृशैस्तैः (अन्भंगिए) अभ्यङ्गितः - मर्दितः (समाणे ) सन् (तिलचम्मंसि) तैलचर्मणि ( निउणेहिं ) उपायचतुरैः (पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं) प्रतिपूर्णस्य हस्तपादस्य अत्यन्तसुकुमालतलैः पुरुषैः, अत्र किरणावलीकारैः प्राण्यङ्गद्वन्द्वेऽपि पाणिपादानामिति प्रयोगो लिखितः स तु मुखनासिकाभ्यामित्यादीन् भाष्यादिप्रयोगाननुसृत्य बोध्यः, सुबोधिकाकारस्य तु तच्चि - | न्त्यत्वेन लिखनं भाष्याद्यज्ञानमूलकमिति ( अभंगणपरिमद्दणुद्दलणकरणगुणनिम्माएहिं ) तैलादिभिर्ब्रक्षणं परिमर्द्दनं - तैलस्य | मर्दनं उद्वलनं-तैलस्य बहिः कर्षणं एतेषां करणे ये गुणविशेषास्तेषु सदा कृताभ्यासैः (छेएहिं ) प्रस्तावः द्विसप्ततिकलापण्डि - तैर्वा ( दक्खेर्हि) कार्याणां शीघ्रकारकैः (पट्ठेहिं) अङ्गमर्दकानामग्रसरैः (कुसलेहिं) मर्दनकरणकुशलैः (मेहावीहिं) नवनवविज्ञान श्रीवीरचरित्रे सिद्धार्थस्नानादि 11 & 12 11
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy