SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे | सङ्क्रमणादिमिर्लक्षणज्ञापकं (अंबरतलपईव) आकाशतलस्य प्रदीप (हिमपडलहिगलग्गह) हिमसमूहस्य गले गृहीत्वाऽऽकर्षकं श्रीवीर| (गहगणोरुणायगं) ग्रहसमूहस्य उरुः-महानायकस्तं (रत्तिविणासं) रात्रिविनाशकं (उदयत्थमणेसु) उदयास्तमनवेलायां । चरित्रे ७-८ (मुहुत्त) घटिकाद्वयप्रमाणं यावत् (मुहदसणं) सुखेन दर्शनं यस्य (दुन्निरिकव) अन्यसमये विलोकयितुमशक्यं (रत्तिमुद्धंत) | सूर्यध्वजौ | रात्री उद्धतान्-स्वेच्छाचारिणः दुराचारिणः (दुप्पयार) दुष्प्रचारान्–पारदारिकचौरादीन् (पमद्दणं) प्रमर्दन-निवारक (सीयवेगमहगं) शीतवेगस्य निवारकं *पिच्छइ (मेरुगिरिं) मेरुपर्वतं सर्वदा (परिअयंत) प्रदक्षिणया परिभ्रमन्तं (विसाल) | विस्तीर्णमण्डलं (रस्सीसहस्स) किरणसहस्रेण (पयलिअ) प्रदलिता-लुप्ता (दित्तसोहे) दीप्तानां-चन्द्रादितेजस्विनां शोभा येन, | अत्र लोकरूढ्या सहस्रकिरणकथनं, कालभेदादधिका अपि किरणाः स्युः, यथा पौषे मासे दश शतानि १००० मार्गशीर्ष फाल्गुने | च सार्द्धदशशतानि १०५० कार्तिके माघे च एकादशशतानि ११०० चैत्रे द्वादशशतानि १२०० वैशाखे त्रयोदशशतानि १३०० ज्येष्ठे श्रावणे भाद्रपदे च चतुर्दशशतानि १४०० आषाढे पञ्चदशशतानि १५०० आश्विने षोडशशतानि १६०० किरणानामिति । ७ ॥३९॥ (तओ पुणो) ततः पुनः त्रिशला अष्टमे स्वप्ने (धय) महेन्द्रध्वज पश्यति, कीदृशं?-(जच्चकणगलट्ठि) उत्तमसुवर्णमययष्टिकायां-दंडे (पइट्ठिय) स्थापितं, (समूह) समूहभूतैः प्रचुरैः (नीलरत्तपीयमुकिल्लसुकुमालुल्लसियमोरपिच्छ) | नीलरक्तपीतशुक्लकृष्णवर्णैः सुकुमालेः उल्लसद्भिर्वा तेनेतस्ततश्चलाचलः इदृशैर्मयूरपिच्छैः (कयमुद्धए) कृता मूर्द्धजाः-केशा इव यस्य (अहिअसस्सिरीय) अधिकशोभायुक्तं (फालिहसंग्वंक) स्फटिक रत्नं शङ्खः अङ्कः-रत्नं (कुंद) श्वेतपुष्पविशेषमाल्यं (दगरय) जलकणाः (रययकलस) रूप्यकलशः एतत्पदार्थवत् (पंडर) श्वेतं वर्णेन (मत्थयत्थेण सीहेण) ध्वजमस्तके चित्रतयाऽऽलिखितेन mmuniciNAmaiIAHI LAINIA HINoun waitin mamakalinal
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy