SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्री कल्पकौमुद्यां ३क्षणे ।। ५५ ।। नयण) लोकानां हृदयनयनानां (कंतं) कान्तं प्रियं (पडिपुण्णं) पूर्णिमासत्कं ( तिमिरनिकर) अन्धकारसमूहेन (घणगुहिर) घना - निविडा ये गंभीरा वननिकुजादयस्तेषां (वितिमिरकरं) अन्धकारनाशकं ( पमाणपक्ख) मासवर्षादिप्रमाणकारकयोः शुक्लकृष्णपक्षयोः (अंत) मध्ये - पूर्णिमायां (राय) राजमाना (लेहं) षोडश कला यस्य (कुमुअवणविबोहगं) चन्द्रविकाशिकमल| वनानां विकस्वरताकर्त्तारं (निसासोहगं) रात्रिशोभाकरं (सुपरिमट्ठदप्पणतलोवमं) रक्षादिना सम्यग्मार्जितदर्पणतलेन उपमा यस्य ( हंस पडवणं) हंसवत् पदुः- धवलो वर्णो यस्य (जोइस) ज्योतिष्कानां (मुहमंडगं ) मुखमण्डकं (तमरिपुं) अन्धकाखैरिणां (मयणसरपूरगं ) कामस्य शरापूरं - तूणीरमिव यथा धनुर्धरस्तूणीरं प्राप्य लक्ष्यं विध्यति तथा कामोऽपि चन्द्रोदयं प्राप्य कामिजनान् विध्यति ( समुद्ददगपूरगं) समुद्रस्य वेलावृद्धिकरं (दुम्मणं) दुःखितं (जनं दइ अवजियं) प्राणवल्लभरहितं | विरहिणीजनं च ( पायएहिं ) किरणैः (सोसयंत) शोषयन्तं पुणो (सोमचारुरूवं ) सौम्यम् - अक्रूरं रुचिररूपं यस्य *पिच्छइ सा (गगणमंडलविसाल) आकाशवद् विस्तीर्ण (सोमं ) सौम्यं - सुन्दरं ( चकममाण) चञ्चलं (तिलगं) तिलकमिव शोभाहेतुत्वात् (रोहिणी) रोहिणीनामस्त्रियाः (मणहिअयवल्लहं) मनोहितदायी वल्लभस्तं, (देवी पुन्नचंदं समुल्लसंतं) व्याख्यातपूर्वम् ६ ||३८|| (तओ पुण) ततः पुनः सप्तमे स्वप्ने त्रिशला (सूरं ) सूर्यं पश्यति, कीदृशं - (तमपडल) अन्धकारसमूहस्य (परिप्फुर्ड) स्फोटकं - विनाशकं (चैत्र) निश्रये (तेअसा) तेजसैव (पजलंत) देदीप्यमानं रूपं यस्य ( रत्तासोग) अशोकवृक्षः ( पगास किंसुअ) पुष्पित पलाशवृक्षः (सुअ) शुकमुखं (गुंजद्धरागसरिसं ) गुञ्जाया अर्धभागस्तेषां रागेण सदृशं, रक्तवर्णत्वात् (कमलवणालंकरणं) कमलवनस्य शोभाकरं, विकाशकरत्वात ( अंकणं जोइसस्स ) ज्योतिषक्रस्याङ्कनं, मेषादिराशिषु श्रीवीरचरित्रे चन्द्रसूर्यौ ॥ ५५ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy