________________
श्रीवीर
चरित्रे
श्रीकल्पकौमुद्यां २क्षणे ॥ ४०॥
मरीचिभवः
MAITHILIPARITAHARIRAMPHASHRISHAMARI MILITAPERIALISAPART ANY
कृत्वा२२ त्रयोविंशे भवे पश्चिममहाविदेहे मुकाराजधान्यां धनञ्जयराजधारणीदेव्योः पुत्रश्चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा | |चक्रवर्ती जातः, इह मनुष्यगतेश्चक्रवर्तित्वस्य विरुद्धत्वेऽपि देवभद्रीयवीरचरित्रोक्ताश्चर्यभूतत्वात्तदभाव एवेति सुस्थं, स च पोट्टिलाचार्यपार्चे दीक्षां गृहीत्वा कोटिवर्षाणि च पालयित्वा२३ चतुर्विंशे भवे महाशुक्रे स्वर्गे सप्तदशसागरायुर्देवः२४ ततश्युतः। पञ्चविंशे भवेत्र भरतक्षेत्रे छत्रिकानगाँ जितशत्रुराजभद्राराज्योः पञ्चविंशतिलक्षवर्षायुनन्दनो नाम नन्दनः, सोऽन्यदा राज्यं त्यक्त्वा पोट्टिलाचार्यपावें दीक्षां गृहीत्वाऽविच्छिन्नमामक्षपणतपाः विंशत्या स्थानकैस्तीर्थकरनामकर्म निकाचयित्वा एकलक्षवर्ष च | दीक्षां पालयित्वा माससंलेखनया२५ षड्विंशे भवे प्राणतस्वर्गे पुष्पोत्तरावतंसकविमाने विंशतिसागरायुर्देवः सञ्जातः२६, ततश्यु| त्वा मरीचिभवे जातिमदकरणबद्धेन भुक्तशेषेण नीचैर्गोत्रकर्मणा सप्तविंशे भवे देवानन्दाब्राह्मण्याः कुक्षावुत्पन्नः२७, तत इन्द्र इति विचारयति-यदहंदादयः नीचैर्गोत्रकर्मोदयेन अन्तप्रान्तादिकुलेषु (वक्कमिसु वा वक्कमंति वा वक्वमिस्संति वा) आगता आगच्छन्ति आगमिष्यन्ति च कुञ्छिसि गम्भत्ताए (नो चेव णं) न चैव योनिमार्गेण जन्मार्थ निर्गमनेन निर्गता निर्गच्छन्ति निर्गमिष्यन्ति च ।।१९।। (अयं च णं समणं भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडगामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहीए जालंधरसगुत्ताए कुञ्छिसि गब्भत्ताए उववन्ने) श्रमणो भगवान् महावीरो जम्बुद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य भार्याया देवानन्दायाः कुक्षौ गर्भतया उत्पन्नः |॥२०॥ (तं जीअमेय)तस्मात् कारणादेतज्जीतम्-आचारः, केषां?-(तीअपच्चुप्पन्नमणागयाणं)अतीतवर्तमानानागतानां (सकाणं देविंदाणं देवराईणं)शक्राणां देवेन्द्राणां देवराजानां यत् (अरिहंते भगवंते)अर्हतो भगवतस्तीर्थकरान् (तहप्पगारेहितो