________________
श्रीकल्पकौमुद्यां
२क्षणे ॥३८॥
कालपरिचिता अपि प्रतिकारं न कुर्वन्ति, अथवा एते स्वशरीरेऽपि निःस्पृहाः सर्वविरताः अविरतस्य मम कथं प्रतिक्रियां कुर्व- |श्रीवीरन्ति !, ततो रोगरहितस्य ममैकः शिष्यो युक्त इति चिन्तातुरस्य रोगरहितत्वे जातेऽन्यदा कपिलनामा राजपुत्रो मरीचिपाचे धर्म
चरित्रे श्रुत्वा प्रतिबुद्धः, साधुधर्मग्रहणाय तेषां समीपे प्रेषितोऽपि साधुधर्मपराङ्मुखः कपिलः प्राह-भवद्भिः साधुमार्गः कथं नाङ्गीक्रि
VAमरीचिभवः यते ?, तदा मरीचिः पापोऽहं बहुलकर्माहं साधवस्त्रिदण्डनिवृत्ताः अहं तु त्रिदण्डवानित्यादि पूर्ववत् सर्व प्रोवाच, पुनरपि कपिलः प्राह-किं युष्मत्पाचे सर्वथा धर्मो नास्त्येवेति श्रुत्वा मरीचिश्चिन्तयति-प्रचुरकर्माऽयं जिनप्रणीतं धर्म नाङ्गीकरोति, ततो वरं मम | योग्यः शिष्यो मिलितः इति विचार्य भो कपिल! सम्पूर्णो धर्मः साधुमार्गे किश्चितु मम पार्श्वेऽपीत्यर्थवाचकं 'कविला इत्थंपि'त्ति उक्तवान् , इति श्रुत्वा च कपिलस्तत्पार्श्वे परिव्राजको जातः, मरीचिनाऽप्यनेन दुर्भाषितवचनेन कोटाकोटिसागरोपमप्रमाणः संसार उपार्जितः । अत्र दुर्भाषितत्वं तु स्वपार्श्वे देशविरतेः सत्वेन सूत्रत्वेऽपि तद्वचनेन धर्मरहितेऽपि तद्दर्शने धर्मबुद्धेरुत्पादकत्वात् कपिलापेक्षयोत्सूत्रत्वेनावसेयं । यत्तु सुबोधिकाकारो मरीचिवचनमुत्सूत्रत्वेनोक्तवान् तत्तु भगवत्याद्यागमोक्तानन्तसंसारिणोऽपि जमालेः पञ्चदश भवाः केवली वधक इत्यादिसर्वागमविरुद्धबहुजल्पजल्पाकखगुरुभ्रातृमतव्यवस्थापनायेति ध्येयं, पञ्चदशभवस्थापनं त्वना-| लोचिताप्रतिक्रान्तमृतोत्सूत्रभाषिणः सङ्ख्यभवकथनायेत्यत्र बहु वक्तव्यं तद् ग्रन्थान्तराज्ज्ञेयं । ततो मरीचिः चतुरशीति८४लक्ष| पूर्वाण्यायुर्भुक्त्वा तत् कर्मानालोच्य मृत्वा च३ चतुर्थे भवे ब्रह्मदेवलोके दशसागरायुर्देवो जातः४ ततश्युत्वा पञ्चमे भवे कोल्लाकसनिवेशेऽशीतिलक्षपूर्वायुः कौशिकनामा विप्रः, कामासक्तो जीवहिंसादिषु रतो निःशूकः त्रिदण्डी मृत्वा५ भूयःकालं संसारे भ्रान्त्वा षष्ठे भवे स्थूणानगयों द्वासप्ततिलक्षपूर्वायुः पुष्पनामा विप्रः त्रिदण्डी६ मृत्वा सौधर्मदेवलोके मध्यमायुर्देवः७ सतयुत्वा- H ॥३८॥