________________
H
श्रीकल्पकौमुद्यां
२क्षणे
I
॥३७॥
MA
LINDARITAMARHIIIIII-MIRRIAFAIRMITTEENSIBIHANI
कपायवियुक्ताः८ सचित्तजलारम्भव काश्च९ साधवः, अहं तु नैवमतस्विदण्डिकं? क्षुरमुण्डं शिरसि शिखा च२ स्थूलप्राणातिपात
| श्रीवीर| विरतिः३ पावित्र्यादिकं किश्चनं४ चन्दनादिसुगन्धग्रहणं५ मोहाच्छादनार्थ छत्रकं६ उपानद्वारणं७ गैरिकरक्तानि वस्त्राणि८ परि- | चरित्रे | तिजलेनस्नानं पानं९ च ममास्तु, इत्थं स्वबुद्ध्या विकल्प्य परिव्राजकत्वंगृहीतवान् , तं चाभिनववेषधरं दृष्ट्वा बहुजनो धर्म पृच्छति, | | तदने साधुधर्म ब्रूते, लोको वक्ति-कथं भवता साधुधमों नाद्रियते ?, तदा तत्पुरः साधवस्त्रिदण्डनिवृत्ताः अहं तु त्रिदण्डवानित्यादि पूर्वोक्तमेव प्रकटं वदन् स्वदेशनाप्रतिबुद्धान् जनान् भगवतः शिष्यत्वेन समर्पयति, भगवतैव सार्द्ध विचरति च, एकदा च भगवान् मरीचिना सह विनीतायां समवसृतो,बन्दनार्थ समागतेन भरतेन पृष्टं-हे स्वामिन् ! अस्यां प्रौढपपदि अस्मिन् भरतक्षेत्रे भावितीर्थकृत कश्चिजीवोऽस्ति ?, ततो भगवदुक्तं श्रुत्वा भरतो मरीचिसमीपे गत्वा वन्दित्वा च प्राह-भो मरीचे! यावन्तो लाभास्ते | त्वयैव लब्धाः, यतस्त्वमस्यामवसपिण्यां वीरनामा चरमतीर्थङ्करो१ महाविदेहक्षेत्रे मूकाराजधान्यां प्रियमित्राभिधानश्चक्रवर्ती अत्रैव भरतक्षेत्रे पोतनपुरनगरे त्रिपृष्टनामा प्रथमो वासुदेवश्च भविष्यसीत्युक्त्वा प्राह-तव परिव्राजकवेषं जन्म च न वन्दे, किन्तु चरमतीर्थङ्करो भविष्यसि तेन त्वां वन्दे इत्युक्त्वा स्वस्थानं गतः, मरीचिरपि तद्वचनं श्रुत्वा हर्पोत्कपात्रिदण्डिकं भूमिकायामास्फाल्य नृत्यन्निदमाह-प्रथमो वासुदेवो१ महाविदेहे मूकाराजधान्यां चक्रवर्ती२ चरमतीर्थङ्करो३ भविष्यामि, एतावदेव मम भवतु, अहं च वासुदेवानां मध्ये प्रथमो१ मम पिता चक्रवर्तिनां मध्ये प्रथमो२ मम पितामहश्च तीर्थङ्कराणां मध्ये प्रथमः३, अतः कारणादहो मम कुलं उत्तममिति जातिमदनिमित्तकं नीचैर्गोत्रं बद्धवान् , ततश्च ऋषभदेवे मोक्षं गते मरीचिः साधुभिः सार्द्ध हिण्डन् पूर्ववत् साधुभ्यश्च शिष्यान् ददाति, अन्यदा रोगाक्रान्तस्य मरीचेः कोऽपि साधुः परिचर्या न करोति, तदा स चिन्तितवान्-अहो एते बहु-10॥३७॥