________________
श्रीवीर
चरित्रे असंयतपूजा
श्रीकल्प
तथा अष्टशतं सिद्धाः, यथा पञ्चशतधनुःप्रमाणोत्कृष्टावगाहनायां भरतं विना नवनवत्या ९९ पुत्ररष्टामिश्च भरतपुत्रैः सह श्रीकौमुद्यां ऋषभदेव एकसमये मोक्षं गत इत्याश्चर्यम् ९।। २क्षणे __तथा असंयतानां पूजास्वरूपं,यथा श्रयते हि भरतचक्रवर्तिना मा हन मा हन इति स्वस्य धर्मस्मारणनिमित्तं सम्यक्त्वादिव्रतधारि॥३५॥ Pणो विज्ञातजीवाजीवादिपदार्थस्वरूपाः काकिनीरत्नकृतज्ञान*दर्शनरचारित्र३रूपरत्नत्रयाभिज्ञानरेखात्रयरूपा यज्ञसूत्रधारिणःश्रावका
निजावाससमीपस्थाने स्थापिताः, चक्रवर्तिगृहे एव भुञ्जाना माहना इति नामानि धारयन्तस्तिष्ठन्ति स्म, चक्रवर्तिमोक्षगमनानन्तरं | तु अष्टपदृराजप्रदत्तसुवर्णमययज्ञसूत्रधारिणस्ततो रूप्यमययज्ञसूत्रधारिणस्ततोऽपि च कालपरिहाण्या सुविधिनाथतीर्थे सूत्रमययज्ञसूत्रधारिणश्चाभूवन् , ततः कियता कालेन साधुधर्मोच्छेदे लोका माहनान् धर्म पृच्छन्ति, ते च लोलुपा इन्द्रियपोषणरसिका आरम्भपरिग्रहासक्ता अब्रह्मचारिणः कथयति स्म-यथाविधि यथा देयं,यथा द्रव्यं यथाऽऽगमम् । यथापात्रं यथा कालं,दानं देयं गृहाश्रमे ॥१॥'गृही दानेन शुक्ष्यतीति वचनादस्माकं सुवर्णरूप्यमणिमुक्ताफलगृहक्षेत्रवाटिकाकन्याशय्यालोहतिलकसिगोअजाश्वादि भव्यभोजनकपूरलवणादि च सर्व देयं, यतः-"कनकाश्वतिला नागो, रथो दासी मही गृहम् । कन्या च कपिला धेनुर्महादानानि वै दश ॥१॥" | वयं गुरवः संसारतारकाः पात्राणि पूजायोग्याश्चेति श्रुत्वा धर्मार्थिनो लोकास्तथा कर्तु प्रवृत्ताः, एवं कालेन मिथ्यात्वं व्याप्तं, ते च | माहना ब्राह्मणा इति ख्यातिभाजो जाताः,केवलं हि संयताः संयतासंयता वा संलग्नाः पूज्यन्ते,अत्र तु केवलमसंयतानामेव पूजा जातेत्याश्चर्य इति वृद्धान्तर्वाच्ये, शेवा नाभिसुताद् द्विजा भरतत इति षड्दर्शनोत्पत्तिग्रन्थे च १ दशानामप्याश्चर्याणां विशेषो यथा-अष्टाधिकं शतं सिद्धाः श्रीऋषभतीर्थे१ असंयतपूजा सुविधितीर्थे २ हरिवंशोत्पत्तिः शीतलतीर्थे३ स्त्री तीर्थङ्करो मल्लिः४ कृष्ण