________________
श्रीकल्पकोमुद्यां २क्षणे ॥३४॥
श्रीवीर
चरित्रे चमरोत्पातः
| पिको देवो जातो, ज्ञानेन तौ युगलिनौ ज्ञात्वाऽचिन्तयत्-अहो एतौ मम वैरिणौ युगलसुखं भुक्त्वा स्वर्ग यास्यतः, अत एतौ नरके |पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तशरीरौ तौ अत्रानीय यः चम्पापुर्यामिक्ष्वाकुवंशश्चण्डकीर्तिराजोऽपुत्रो मृतस्तद्राज्यं दत्त्वा सप्तव्यसने प्रवर्तितौ, दादृशौ तौ च मृत्वा नरके गतौ, तदेवं हरिवर्षक्षेत्रोत्पन्नाद्धरिनाम्नः पुरुषाजातो वंशो हरिवंक्षः, अत्र युगलिकस्यानयनं देहायुःसंक्षेपणं नरकगमनं चेति सर्वमाश्चर्य ७
तथा चमरोत्पातो, यथा विभेलकसनिवेशे पूरणाख्यः तापसः पष्ठादितपा द्वादशवर्षान्तेऽनशनस्थितः तामलिवत् साधुदर्शनान् | सञ्जातसम्यक्त्वसम्मुखश्चमरचञ्चाराजधान्यामभिनवोत्पन्नश्चमरोऽवधिज्ञानेनोर्ध्वमवलोकयन् स्वमस्तकोपरि सिंहासनोपविष्टं सौधर्मेन्द्रं दृष्ट्वा क्रोधाध्मातो महत्तरादिदेवैर्निवारितोऽपि सुंसुमारनगरोद्याने छद्मस्थावस्थायां कायोत्सर्गस्थितस्य वीरस्य शरणं कृत्वा विकु|वितलक्षयोजनघोररूपः परिघायुधरत्नं भ्रययन् गर्जन देवांस्वासयन् उत्पत्य सौधर्मावतंसकविमानवेदिकायां पादस्फोटं कृत्वा सौधर्मेन्द्रं तर्जयामास, सौधर्मेन्द्रोऽपि कोपात् तं प्रति जाज्वल्यमानं वज्रं मुक्तवान् , ततो दाहभयादधोमुख ऊर्ध्वपादः शीघ्रं पश्चाद्वलितः, शरीरं सङ्कोचयन् हारादि पतदगृह्णन् कृतकुन्थुप्रायकायः श्रीमहावीरपादयोः शरणं प्रविष्टः, सौधर्मेन्द्रोऽप्यवधिज्ञानतस्तत्|स्वरूपं ज्ञात्वा तीर्थकराशातनाभयात् शीघ्रं समागत्य चतुरङ्गुलमलग्नं भगवतः प्रदक्षिणयां भ्रमद् वज्रं गृहीतवान् , कथितवाँश्च-भो चमर! मुक्तोऽसि प्रभुप्रसादात , नास्ति तब भयमित्युक्त्वा भगवन्तं च वन्दित्वा स्वस्थानं गतः, चमरोऽपि प्रभुं प्रणम्य स्वस्थानं गत इत्याश्चर्यम् ।
१ श्रीभगवत्यां शक्रवज्रचमराणां गतिभेदेन चमरस्याघातः वज्रस्येन्द्रेण ग्रहणं च
RUPAINAMRATAPam
||॥ ३४॥
andir