________________
श्रीकल्पकौमुद्यां २क्षणे
॥ ३३ ॥
| एकोनविंशतितमतीर्थङ्करस्थाने उत्पन्ना तीर्थं च प्रवर्तितवतीत्याश्चर्यं ३ |
तथा भावरहिता पर्षत्, यथा - उत्पन्न केवलज्ञानस्य महावीरस्य प्रथमसमवसरणे केनापि विरतिर्न प्रतिपन्नेत्याश्वर्यं ४ |
तथा कृष्णस्यामरकङ्कागमनं, यथा- पाण्डवभार्याद्रौपद्या सम्यग्दृष्टया मिथ्यात्विनारदस्य अभ्युत्थानादिविनयो न कृतः, तेन कुपितेन तस्या दुःखनिमित्तं धातकीखण्ड भरते मरकंकाराजधानीस्वामिस्त्रीलम्पटपद्मोत्तरराजस्याग्रे रूपवर्णनं कृतं तच्छणाजातकामरागेण तेन मित्रदेवेन आनायिता द्रौपदी, ततो नारदाद्विज्ञातोदन्तेन कृष्णेनाराधितः सुस्थितदेवः तत्प्रभावात् पाण्डवैः सह लवणसमुद्रमुख्य नृसिंहरूपेण रणे पद्मोत्तरं जित्वा द्रौपदीं चादाय पश्चानिवृत्तः, इतश्च तत्र श्रीमुनिसुव्रतस्वामि तीर्थङ्करमुखात् कृष्णागमनं ज्ञात्वा तन्मिलनोत्कण्ठितः कपिलनामा वासुदेवस्त्वरितं तत्रागतः कृष्णस्तु तदा समुद्रमुख्य याति, तदा च तेन शङ्खः पूरितः, कृष्णेनापि शङ्खः पूरितः, ततः परस्परं शङ्खशब्दौ मिलितावित्याश्चर्यं ५ |
तथा चन्द्रसूर्ययोरवतरणं, यथा- कौशाम्ब्यां नगर्यां श्रीमहावीरस्य वन्दनार्थं शाश्वत विमानेन चन्द्रसूर्यौ समागतौ इत्याश्चर्यं ६ तथा हरिवंश कुलोत्पत्तिर्यथा - अत्रैव जम्बूद्वीपे भरतक्षेत्रे कौशाम्ब्यां सुमुखो राजा वीरनाम्नः शालापतेः सुरूपां वनमालानाम्नी स्त्रीं दृष्ट्वा मोहितः, सापि तथैव मोहिता, ततस्तां गृहीतवान् शालापतिस्तु तस्या वियोगेन ग्रथिलीभूतो नगरे त्रिकचतुष्कादिषु परिभ्रमन् यं कश्चन मनुष्यपश्वादिकं पश्यति तं सर्व वनमालेति शब्दयति, ततोऽन्यदा कौतुकाल्लोकैर्येष्टितो वनमालायुक्तराजेन दृष्टः, ततो हा धिग् आवाभ्यां लोकद्वयविरुद्धं कृतं, नास्ति नरकेष्वपि स्थानं इत्यात्मनिन्दां कुर्वाणां अकस्माद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे हरिहरिणीनामानौ युगलत्वेनोत्पन्नौ शालापतिरप्येतां वात्तां श्रुत्वा सावधानीभूतो वैराग्यादज्ञानकष्टं कृत्वा किल्बि
श्रीवीरचरित्रे
अभावित|पर्षचंदूसू
र्यागमनहरिवंशाः
॥ ३३ ॥