________________
श्रीकल्पकौमुद्यां २क्षणे ॥३२॥
श्रीवीर
चरित्रे उपसर्गगर्भापहारस्त्रीतीर्थकरा:
|प्यामि, त्वं तु एतां वार्ता तस्मै कथयेः, त्वां न्यायदर्शिवृद्धवणिजमिव रक्षिष्यामि इति श्रुत्वा अतिभीत आनन्दर्षिः शीघ्रमागत्य भगवतस्तत्स्वरूपं निरूपयामास, भगवता चोक्तं-भो आनन्दर्षे ! स गोशालक आगच्छति तेन सर्वेऽपि साधवो दूरं गच्छन्तु, न चास्य केनापि किमपि वक्तव्यं, ततस्तैस्तथा कृते गोशाल आगतो, भगवन्तं प्रति वक्ति स्म-भो! आयुष्मन् ! काश्यप त्वं मामेवं कथयसि यदेष गोशालो मङ्खलिपुत्र इत्यादि, स च तव शिष्यो गोशालो मृतः अहं त्वन्य एव परीपहसहं तच्छरीरमधिष्ठाय स्थितोऽस्मीति वदन् तन्निराकरणप्रवृत्तौ सुनक्षत्रसर्वानुभूतिनामानौ भगवच्छिष्यौ तेन तेजोलेश्यया दग्धौ स्वर्ग गतौ, ततो भगवानाह-हे गोशालक ! स एव त्वं यो मत्त एव श्रुतवान जातः, एवं वृथाऽऽत्मानं गोपयन् गोपितो न भवसि, यथा कश्चिञ्चौर आरक्षः | परितो निरुद्धस्तृणेनाङ्गुल्या वाऽऽत्मानमाच्छादयन् स किमाच्छादितो भवति ?, एवं त्वमपीति, एवं समभावेन यथाऽवस्थितं वदतो भगदत उपरि स तेजोलेश्यां मुमोच, सा च भगवन्तं प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया दग्धशरीरो विविधवेदनामनुभवन सप्तमरात्रौ मृतः, भगवतश्चापि तस्यास्तापेन रक्तातिसारो जातः, स च रेवतीश्राद्धीप्रदत्तौषधदानेन प्रशान्त इति १ ।
तथा गर्भस्योदरादुदरान्तरे हरणं-मोचनं, इदमपि कस्यापि जिनस्याभूतपूर्व महावीरस्य तु जातमित्याश्चर्य २ ।
तथा तीथं तु पुरुष एव प्रवर्त्तयति, न तु स्त्री, अस्यामवसपिण्यां तु जम्बूद्वीपे पश्चिममहाविदेहे सलिलावतीविज़ये बीतशोकानगर्या षड्भिर्बालमित्रः सह चिरं राज्यं भुक्त्वा महाबलो राजा साधुसमीपे दीक्षां गृहीत्वा सप्तापि एकं तप करिष्याम इति प्रतिज्ञां कृत्वा तपः कुर्वन्ति स्म, परं महाबलर्षिः पारणकदिने अधिकतपोवाञ्छया मे शिरो दुष्यति ममोदरं दुष्यतीति तपः करोति, | तेन मायाप्रत्ययं स्त्रीवेदं बद्ध्वा विजयविमाने देवो भूत्वा ततश्युत्वा चात्र भरतक्षेत्रे मिथिलानगरीपतिकुम्भराजपुत्री मल्लीनाम्नी
RAN