________________
श्रीकल्पकौमुद्यां २क्षणे ॥३१॥
श्रीवीर
चरित्रे उपसर्गाश्चय
| विइकताहिं समुप्पजइ) अस्ति पुनरेपोऽपि भवितव्यताख्यः पदार्थः लोके आश्चर्यभूतः अनन्ताभिरुत्सपिण्यवसर्पिणीभिर्व्यतिकान्ताभिः कदाचित् समुपद्यते ।
तेनास्यामवसापिण्यां दशाश्चर्याणि जातानि, यथा उपसर्गः १गर्भापहारः२ स्त्रीतीर्थङ्करः ३ भावरहिता पर्पत४ कृष्णस्यामरकवागमनं५ मूलविमानेन चन्द्रसूर्ययोरागमनं६ हरिवंशोत्पत्तिः७ चमरोत्पातः८ अष्टोत्तरशतं सिद्धाः९ असंयतीनां पूजा चेति १०|| | तत्रोपसर्गाः श्रीवीरस्य छद्मस्थावस्थायां बहवो जाताः, परं केवल्यवस्थायानपि गोशालकृतोपसर्गः आश्चर्य, तद्यथा-अन्यदा वीरः श्रावस्त्यां नगर्या समवसृतः, गोशालकोऽपि च तत्रागतः, तदाऽद्य श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ महावीरो गोशालकश्चेति | लोकवचनं श्रुत्वा गौतमेन पृष्टो भगवाँस्तत्स्वरूपमुवाच-नायं जिनो नापि सर्वज्ञः, किन्तु शरवणग्रामे मङ्खलिनाम्नो मङ्खस्य सुभद्राभार्यया गोबहुलब्राह्मणस्य गोशालायां जातस्तेन गोशालक इति नामा, बालत्वे मृतमातापितृको दयया लोकैर्जीवितः, छद्मस्थेन । मया सार्द्ध षड् वर्षाणि हिण्डितो. मत्त एव किश्चित् श्रुतवान जातः, इति श्रुत्वा लोकेन तद्व्यतिकरे त्रिपथचतुष्पथादौ कथ्यमाने | गोशालकस्तं ज्ञात्वा कुपितः गोचरगतं भगवच्छिष्यमानन्दाभिधं प्राह-हे आनन्दले ! एकं दृष्टान्तं शृणु, यथा केचिद् व्यापारिणो द्रव्योपार्जनार्थ विविधक्रयाणकभृतशकटाः परदेशं यान्तः कान्तारं प्रविष्टास्तृषाक्रान्ता इतस्ततो जलं विलोकयन्तश्चत्वारि वल्मीकशिखराणि दृष्ट्वा एकं स्फोटयामासुः, तस्मात् प्रचुरं जलं प्राप्त, तृपां यावत् पीतं, तेन जलपात्राणि भूतानि, तत उपद्रवं सम्भाव्य वृद्धवणिजा निषिद्धा अपि द्वितीयं तृतीयं च शिखरं स्फोटयामासुः, ताभ्यां क्रमेण सुवर्ण रत्नानि च प्रापुः, पुनस्तथैवात्यन्तं निषिद्धा अपि अतिलोभान्धाश्चतुर्थमपि स्फोटयामासुः, तस्माच्च वज्रसदृशेन विनिर्गतेन दृष्टिविषसपेण सर्वेऽपि ज्वालिताः, निवारकं वृद्धवणिज तु न्यायदर्शीति वनदेवता तं तत्स्थाने मुमोच, ततो ममावर्णवादवादिनं तव धर्माचार्य तपस्तेजसा भस्मसात्करि
॥३१॥