________________
श्रीकल्पकौमुद्यां
श्रीवीर
चरित्रे मिघकुमार
कथा
१क्षणे
॥२८॥
न वरं, किंच-इदं संयमकष्टानुष्ठानं महाफलदायकं, यच्चमपि पूर्वभवे धर्मार्थ कष्टं सहमानः स्थितस्तस्माच एतादृशं फलं प्राप्तः, तेन | तव पूर्वभवो शृणु, यतस्त्वमितस्तृतीये भवे वैताढ्यपर्वतभूमौ सहस्रहस्तिनीयथपतिः पड्दन्तः श्वेतवर्णः वनेचरकृतसुमेरुप्रभनामा हस्ती अभूः, एकदा च दवानले लग्ने भयाक्रान्तो नश्यंस्तृषितः एकं सरोवरं प्रविष्टः, तत्राप्राप्तजलः कर्दमे निमग्नो वैरिहस्तिना दन्ताभ्यां विद्धः सप्त दिनानि महावेदनां सहित्वा विंशत्यधिकवर्षशत१२०मायुर्भुक्त्वा मृत्वा च विन्ध्याचलभूमौ सप्तशतहस्तिनीयथाधिपतिश्चतुर्दन्तो रक्तवर्णो मेरुप्रभनामा हस्ती जातः, कदाचिद्दवानलदर्शनात् जातिस्मरणं प्राप्य वर्षाकालस्यादौ मध्येऽन्ते च वल्लीतृणादि मूलत उन्मूल्य योजनप्रमाणं मण्डलं कृतवान् , अन्यदा च दवानले लग्ने बहुवनचरजीवभृते मण्डले प्रविश्य गुप्ताङ्गः स्थितः, तत्र गात्रकण्डूयनाय एकं पादमुत्पाट्य कण्डूयित्वा पादं नीचैर्मुश्चन् तत्र स्थाने शशकं दृष्ट्वा दयापरेण ऊर्ध्व एव | पादो रक्षितः, साईदिनद्वये दवे चोपशान्ते शशकादिजीवेषु गतेषु पादमधो मुश्चन् पर्वतशिखरमिव भूमौ पतितः, क्षुधातृषार्तोऽपि | दिनत्रयं दयापरः एकं वर्षशतमायुः परिपाल्य श्रेणिकधारिण्योः पुत्रो जातः, तदा अज्ञानिनाऽपि त्वया बाधा न गणिता, अधुना तु त्रिजगद्वन्द्यैः साधुभिः सङ्घट्टितो दुःखीभवसीति भगवदुक्तं श्रुत्वाऽवाप्तजातिस्मरणः प्रभुं प्रणम्य वक्ति स्म-हे वीर! चिरंजीव येनाहमुन्मार्गगतः सुसारथिवन्मार्गे आनीतः,इतःप्रभृति साधूनां पादरजोऽपि वन्द्यं, नेत्रे विमुच्य शरीरमपि त्यक्तमित्यभिग्रहोऽस्तु, एवं स्थिरीकृतो दुष्करं तपस्तप्त्वा मासिकी संलेखनां कृत्वा विजयविमाने देवो जातः, ततश्युत्वा महाविदेहे मोक्षं यास्थतीति मेघकुमारदृष्टान्तः। [महोपाध्यायश्रीधर्मसागरगणिशिष्यश्रुतसागरशिष्यशान्तिसागरकृतायां कल्पकौमुद्यां प्रथमः क्षणः ।