SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥२७॥ कथा himsammellamImmunTIHITS R भव्यलोकस्य मिथ्यात्वान्धकारनाशकत्वात् प्रदीपास्तेभ्यः (लोगपजोअगराणं) सर्वपदार्थमयलोकस्य केवलज्ञानप्रकाशेन श्रीवीरप्रद्योतकरास्तेभ्यः (अभयदयाणं) इहलोक? परलोकर आदाना३ऽकस्मा४ दाजीविका५ मरणा६ऽपयशः७ इति सप्त भयानि न || चरित्रे दयन्ते इत्यभयदास्तेभ्यः (चक्खुदयाणं) चक्षुरिव श्रुतज्ञानं तद्दयन्ते चक्षुर्दयास्तेभ्यः (मग्गदयाणं) सम्यक्त्वादिमोक्षमार्ग मेघकुमारदयन्ते मार्गदयास्तेभ्यः (सरणदयाण) संसारभीतानां शरणदयास्तेभ्यः (जीवदयाणं) सर्वथा मरणरहितत्वं दयन्ते जीवदयास्तेभ्यः, क्वचित् (बोहिदयाणं) तत्र बोधि-जिनधर्म दयन्ते बोधिदयास्तेभ्यः (धम्मदयाणं) यतिश्रावकधर्मदायकास्तेभ्यः (धम्मदेसयाणं) श्रुतचारित्ररूपधर्मस्योपदेशकास्तेभ्यः (धम्मनायगाणं) क्षायिकज्ञानादिधर्मनायकास्तेभ्यः (धम्मसारहीणं) धर्मरथस्य सारथयस्तेभ्यः, यथा सारथी रथं सम्यग् मार्गे प्रवर्तयति रक्षति च एवं भगवन्तोऽपि उन्मार्गे गच्छन्तं जनं मार्गे प्रवर्तयन्ति, अत्र मेघकुमारदृष्टान्तो यथा राजगृहाधीशश्रेणिकधारिण्योः मेघकुमारनाम्ना पुत्रः श्रीमहावीरस्य देशनां श्रुत्वा अष्टौ नारीस्त्यक्त्वा दीक्षां गृहीतवान् , भगवता चाचारशिक्षार्थ स्थविराणां पार्श्वे मुक्तः, तैश्च वृद्धानुक्रमेण द्वारे शायितः, तत्र गमनागमनप्रवृत्तसाधुपदरजोमिस्तथा व्याप्तो || यथा तस्यां निशि क्षणमात्रमपि निद्रां न प्राप्तः, चिन्तयति स च-मम सुखावासे कुसुमशग्याशयनं क क चात्र दुःखावासे भूमि-| लुठनं ? इति, कदर्थनां यावत्कालं कथं सहिष्ये ?, तेन प्रभुमापृच्छ्य पुनर्गृहस्थत्वं ग्रहीष्यामीति सूर्योदये जाते समागतः, प्रभुणा चाग्रत एव अमृतसदृशया वाण्या जल्पितः-हे वत्स ! मेघ साधुपदरजोमिनोऽपि किं दुश्चिन्तितवान् ?, यतो नरके नारकाणामपि दुःखानि कालेन क्षीयन्ते, तर्हि नराणां किं वक्तव्यं ?, तथाऽग्निमध्ये प्रवेशो वरं, संलेखनापूर्वकं मरणं वरं, परं गृहीतवतखण्डनं ॥२७॥ ETIRE
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy