________________
श्रीकल्पकौमुद्यां १क्षणे ॥२२॥
श्रीवीर
चरित्र इन्द्रवर्णनं कार्तिक
कथा
डिच्छियमेयं) अत्यन्तादरसूचकमेतद्वचनं (सच्चे णं एसमढे) सत्य एषः स्वमार्थः (से जहेअं) यथा एनं (तुन्भे वयह) यूयं |वदथ (इतिक९) इतिभणित्वा (ते सुमिणे) तान् स्वमान् (सम्म पडिच्छाइरत्ता) सम्यक् प्रकारेणावधार्य *उसभदत्तेण माह-
णेणं (सद्धिं) साद्धं (माणुस्सगाई) प्रधानान्मनुष्यसम्बन्धिनः (भोगभोगाई) भोगयोग्यान् भोगान् (भुंजमाणा विहरइ) | भुजाना तिष्ठति ॥१३॥ तेणं कालेणं तेणं समएणं (सक्के) शक्रनामसिंहासनाधिष्ठायकत्वाच्छकः (देविंदे) देवेन्द्रः (देवरा
या) देवानां राजा (बज्जपाणी) वज्र पाणौ-हस्ते यस्य सः (पुरंदरे) दैत्यनगरविदारकः (सयकउ) शतं क्रतूनां-कार्तिकश्रेष्ठिभ|वापेक्षया श्रावकपश्चमप्रतिमारूपाणां यस्यासौ, कार्तिकश्रेष्ठिभवो यथा| पृथिवीभूषणनाम्नि नगरे प्रजापालो राजा, कार्तिकनामा श्रेष्ठी, महर्द्धिको राजमान्यः, तेन श्रावकप्रतिमानां शतं कृतं, | ततः शतक्रतुरिति प्रसिद्धिर्जाता, अन्यदा च मासोपवासी गैरिकनामा परिव्राजकस्तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जातः, तं च तथाविधं विज्ञाय कुपितः, पारणार्थ राज्ञा निमत्रितः प्राह-यदि कार्तिकः परिवेषयति तदा तब गृहे भोजनं करोमीति श्रुत्वा राजा श्रेष्टिगृहे गत्वा पाह-मम गृहे त्वं गैरिक भोजय, ततः कार्तिकः प्रोवाच-तवाज्ञाकारित्वाद्भोजयिष्यामि, तदनु श्रेष्ठिना राजगृहे भोज्यमानोऽपि गैरिकोऽङ्गुल्या नामिकां स्पृशन् घृष्टोऽसीति चेष्टां चक्रे, ततो यदि पूर्वमेव मया दीक्षा गृहीताऽभविष्यत् तदा इत्थं नाभविष्यदिति विचिन्त्य अष्टोत्तरसहस्रवणिपुत्रैः सह श्रेष्ठी श्रीमुनिसुव्रतस्वामिपार्श्वे दीक्षां गृहीत्वा द्वादशाङ्गं च पठित्वा द्वादशभिर्वषः सौधर्मेन्द्रो बभूव, गैरिकोऽपि स्वकष्टतः एरावणनामकं सौधर्मेन्द्रस्य वाहनं जातं, ततः कार्तिकं ज्ञात्वा पलायमानं तं गृहीत्वा इन्द्रस्तदुपरि चटितः, तदेन्द्रभापनार्थ मस्तकद्वयं चक्रे इन्द्रोऽपि रूपद्वयं, पुनस्तेन मस्तकचतुष्कं
mamalinally MAHILAI MIMAmeanIMPRILMhanimundel
Imandu
॥ २२॥