SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥२०॥ श्रीवीर| चरित्रे ऋषभदत्तोतं स्वमफलं MINIMIMPAINITAARUPANISANILITARABARIALBARITALISAMARHIHI (सुरूवं) सर्वजनोत्कृष्टरूपं, एवंविधं (दारयं) पुत्रं (पयाहिसि) प्रजनिष्यसि ॥९॥ (सेवि अ दारए) सोऽपि दारकः (उम्मुक्कबालभावे) उन्मुक्तबाल्यावस्थः-सञ्जाताष्टवर्षः (विण्णायपरिणयमेत्ते) विज्ञानं | | सर्वाशैः परिणतमात्रं-व्याप्तं यस्य (जुवणगमणुपत्ते) क्रमेण च यौवनकमनुप्राप्तः सन् (रिउव्वेअजउब्वेयसामवेयअथवणवेय इतिहासपंचमाणं) ऋग्वेद१ यजुर्वेद२ सामवेदा३ थर्वणवेदानां४ इतिहासप्रमाणपञ्चमानां (निघंटुछट्ठाणं) नाममालाषष्ठानां (संगोवंगाणं) शिक्षा१ कल्प२ व्याकरण३ छन्दो४ ज्योति५ निरुक्त६ रूपाणि षड् अङ्गानि अङ्गोक्तार्थविस्तारकराणि उपाङ्गानि तैः सहितानां (सरहस्साणं) परमार्थयुक्तानां (चउण्हं) एवंविधानां चतुर्णा वेदानां तथा चतुर्णामुपवेदानां आयुर्वेद१ धनुर्वेद२गान्धर्ववेदा३ ध्यात्मवेद४ रूपाणां (सारए) पाठनेन प्रवर्तको, विस्मृतस्य स्मारको वा (पारए) पारगामी (वारए) अशुद्धपाठनिवारकः | (धारए) स्वपठितधरणसमर्थः (सडंगवी) शिक्षादिषडङ्गविचारकः (सद्वितंतविसारए) षष्टितन्त्रे-कापिलीयशास्त्रे निपुणः | (संखाणे) गणिते-अङ्कविद्यायां, येन छायातो दण्डारवेधादितश्च पर्वतगृहवृक्षादिमानं ज्ञायते, यथा-अर्द्धव्यंशद्वादशभागा जलपङ्कवालुकान्तःस्थाः। दृष्टं हस्तचतुष्कं कथय सखे ! स्तम्भपरिमाणं ॥१॥ स्तम्भो हस्ता अष्टचत्वारिंशत् ४८/ व्य४ि पड ६का९को १२ शा लोहत्रपुताम्ररजतहेमभुवि । पण्मणिखनौ च जग्मुः कति ते पुरुषा ? कथय विद्वन् ! ॥२॥ पुरुषाः अष्टोत्तरशत | १०८, (सिक्खाणे) आचारशास्त्रे (सिक्खाकप्पे) शिक्षायां-अक्षराम्नायशास्त्रे कल्पे च-यज्ञादिकाचारशास्त्रे (वागरणे) ऐन्द्रं१ | पाणिनीयर जैनेन्द्र३ शाकटायनं ४ वामनं५ चान्द्रं६ सरस्वतीकण्ठाभरणं७ बुद्धिसागरं८ विश्रान्तविद्याधरं९ भीमसेनं१० कलापकं ११ मुष्टि१२ शैवं१३ गौडं१४ नन्दिजयोत्पलं१५ सारस्वतं१६ सिद्धहेमचन्द्रं१७ जयहेम१८ मित्यष्टादशव्याकरणे, तथा ब्राह्म१ Mahananamainamam PIRANSLATIONAL
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy