________________
श्रीकल्पकौमुद्यां १क्षणे
॥ १९ ॥
सम्पूर्णा दोषरहिताश्च स्युस्तस्य गोत्रायुर्धनानि सम्पूर्णानि भवन्ति, आयूरेखाया यावत्योऽङ्गुलयः उल्लङ्ग्यन्ते तावत्यो वर्षाणां पञ्चविंशतयो ज्ञेयाः, आयूरेखाया मणिबन्धसम्मुखा ये पल्लवास्ते सम्पदः, ये चाङ्गुलिसम्मुखाः पल्लवास्ते विपदो ज्ञेयाः, मणिबन्धादूर्ध्वरेखा निगच्छति, यदि साऽङ्गुष्ठं याति तदा राज्यसौख्यं दत्ते, यदि सा तर्जनीं याति तदा राजा राजसदृशो वा, यदि मध्यमां याति | तदा आचार्यः सर्वत्र प्रसिद्धो राजा सेनानी वा, यदि साऽनामिकां याति तदा महाधनः सार्थवाहः, यदि सा कनिष्ठां याति तदा नगरश्रेष्ठी प्रतिष्ठावान्, दक्षिणाङ्गुष्ठे यवे सति विद्याख्यातिऋद्धयः शुक्लपक्षे च जन्म स्यात्, रक्तनेत्रं पुरुषं लक्ष्मीर्न त्यजति, पीतनेत्रं द्रव्यं न त्यजति, दीर्घभुजमैश्वर्यं न त्यजति, मांसपृष्टं सुखं न त्यजति, विस्तीर्णमस्तको राजाधिराजः, विस्तीर्णहृदयो धनधान्यभोगी, विस्तीर्णकटिः बहुत्रीभोक्ता बहुपुत्रपौत्रथ, विस्तीर्णपादः सदा सुखी स्यादित्यादि, लक्षणानि, व्यञ्जनानि-रक्तकृष्णतिलकमपलाञ्छनादीनि तेषां ये गुणाः- शुभफलानि तैः संयुक्तं (माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगं) आकण्ठ| जलभृत कुण्ड पुरुषस्थापनेन द्रोणो- द्वात्रिंशत्सेरमानं जलं निर्गच्छति तदा स पुरुषो मानोपेतः, तोलितश्च पुरुषो यदि अर्द्धभारः स्यात् तदा स उन्मानोपेतः, तत्र भारमानस्य बहुविधत्वात् यथासंभवं ज्ञेयं, ६ सर्वपाः १यवः, ३यवा: १गुञ्जा, ३गुञ्जा १ वल्ल:, १६ वल्लाः १ गद्याणः, १० गद्याणा: १पलः. १५० गद्याणा: १ मणः, १० मणाः १घटी, १० घट्यः १ भारः, आत्माङ्गुलेनाष्टाधिकशताङ्गुलोच्च उत्तमः षण्णवत्यङ्गुलोच्चः मध्यमः चतुरशीत्यङ्गुलोच्चो हीनश्च पुरुषो भवति, इदं चान्यपुरुषमाश्रित्य प्रमाणं, तीर्थङ्करास्तु विंशत्यधिकशताङ्गु| लोच्चाः स्युः, यतस्तेषां मस्तके द्वादशाङ्गुलोष्णीषस्य सच्चात्, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि - मस्तकादीनि | यत्रैवंविधं सुन्दरमङ्गं यस्य स तं (ससिसोमागारं ) चन्द्रवत् सौम्याकारं (कन्तं) मनोहरं (पिअदंसणं) सर्वजनवल्लभं दर्शनं
श्रीवीरचरित्रे
लक्षणव्यंजनगुणाः
॥ १९ ॥