SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥१८॥ श्रीवीर चरित्रे लक्षणव्यजनगुणा: नान्त४ हस्त५ पद६ नखा७श्व सप्त रक्ताः, मुख१ नासिकार हनु३ हृदय४ कक्षा५ नखादश्च षड् उन्नताः, दन्त१ त्वर केशा३अलीपर्व: नखाश्च५ पञ्च सूक्ष्माः, नेत्र१ हृदय२ नासिका३ हनु४ भुजा५श्च पञ्च दीर्घाः, भालस्थलं१ मुखं२ हृदयं३ चेति || || त्रीणि विपुलानि, ग्रीवा जन्धा२ पुकषाकारश्चे३ति त्रयो लघवः, खर? नाभिः२ सचानि३ त्रीणि गंभीराणीति द्वात्रिं|शत् ३२। तथा शरीरस्य सारं मुखं, मुखस्य सारा नासिका, नासिकायाः सारं लोचने, यादृशे नेत्रे ताश आचारः, | यादृशी नासिका तादृशं सरलत्वं, यादृशं रूपं तादृशं वित्तं, यादृश आचारस्तादृशा गुणा भवंति, तथा धर्मी सौभाग्यवान् नीरोगः सुस्वमो न्यायवान् कवीश्वरश्च स्वर्गादागतः स्वर्गगामी च १ निष्कपटः सदयो दाता निपुणः सरलो मनुष्यगतेरागतो मनुष्यगतिगामी च २ मायी लोभी क्षुधातैः अलसस्तिर्यग्गतेरागतः तिर्यग्गतिगामी च ३ सरागः स्वजनद्वेषी कटुकभाषी मूर्खसङ्गकारी नरकादागतो नरकगतिगामी च ४ । अस्थिबहुले शरीरे धनं, मांसबहुले सुखं, त्वक्सुकुमाले भोगाः, अक्षिस्नेहे स्त्रीभोगाः, सत्वे सर्वे गुणा भवन्ति, अतिलघौ अतिदीर्घ अतिस्थूले अतिकशे अतिकृष्णे अतिगौरे सचं भवति, दक्षिणपार्वे दक्षिणावर्त्तः शुभः, वामपार्वे च वामावत्तों भ्रमरः शुभः, दक्षिणपात्रे वामावत्तों वामपार्वे दक्षिणावर्तो मध्यमफलः, तथा पेपणखण्डनसूडनादिकरणं विना पुरुषस्य दक्षिणो हस्तः कठिनः स्त्रियास्तु वामो हस्तः कोमलश्च भव्यः, यस्य करतलं रेखारहितं बहुरेखासहितं वा भवति सोऽल्पायुनिःस्वो दुःखितश्च भवति, यस्य तिस्रः कराङ्गुलयो दीर्घा वृत्ताः सुघनाः कोमला मांसरहितपर्वाणश्च लक्ष्मीकराः, यस्यानामिकाङ्गुलीपर्यन्तरेखातः कनिष्ठाङ्गुली यद्यधिका स्यात् तस्य धनवृद्धिर्मातृपक्षश्च बहुः, करभे रेखाः पुत्रपुत्रीप्रदाः, कनिष्ठाधोरेखाः स्त्रीप्रदाः, अङ्गुष्ठमूलरेखा भ्रातृभगिनीप्रदाः, मणिबन्धात् पितरेखा करभाद्विभवरेखाऽयूरेखा च निर्गच्छति, यस्यैतास्तिस्रो रेखाः DAINITAHARITAPATRA HINDIBIHARIPATI UPANI SHAIRRIANDIT
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy