________________ श्रीकल्पकौमुद्यां // 24 // सायकः। श्रीमान् श्रीजिनशासनस्य वहने धौरेयतां विस्फुरन् श्रीसूरीश्वरवृद्धिसागरगुरुो यौवराज्येऽप्यहो // 7 // तद्राज्ये गह-12.| प्रशस्तिः नार्थशास्त्रघटनाः प्रौढाभियोगा रुषा (स्तथा) तुच्छोत्सूत्रमहीविदारणहलप्रख्याः सुसंवेगिनः। दुर्दान्तप्रतिवादिवाददमनस्थेयःप्रतिज्ञाभृतः, श्रीमन्तो वरधर्मसागरगुरूत्तंसा अभूवञ् शुभाः // 8 // तच्छिष्याः सकलप्रजाहितकृतः प्रज्ञाधुनीभूभृतः, सिद्धान्तोदधिमेरुगिर्यनुकृतः शिष्टयाधरित्रीभृतः / सूरीशा अपि शुद्धवाचकपदालङ्कारिमौलिप्रभाः, श्रीमंतः श्रुतसागराः शमभृतोऽभूवन | | यशोऽम्भोधयः // 9 // तच्छिष्यैः स्वशिशूकतेन्द्रगुरूभिः स्याद्वादवार्डीन्दुभिः, शक्त्या निर्जितशम्भुभिः सुमतिभिर्मिथ्यान्धताभानुभिः। श्रीमद्वाचकशान्तिसागरगुरुप्रष्ठैः सुसन्दर्भिता, मध्येपत्तनपत्तनं सुदिवसे श्रीकल्पकौमुद्यसौ॥१०॥ यावर्षधरैः समेरुभिरलंकुर्वीत भूभामिनी, ज्योतिर्मण्डलमण्डितं सुरपथं गाहेत यावद्रविः / यावद्वीरजिनेन्द्रकीर्तिललनां श्लिष्यन्ति दिग्दन्तिनस्तावच्छिष्ट जनैरियं विजयतां संवाच्यमाना चिरम् // 19 // इति दुर्दान्तवादिदर्पदमनदक्षतमश्रीमत्तपोगणगगनोल्लंबिसौधसंधारणासाधारणस्तंभश्रीधर्मसागरमहोपाध्यायशिष्यमहोपाध्यायश्रीश्रुतसागरशिष्यमहासयोपाध्यायश्रीशान्तिसागरसूत्रितानल्पकामितकल्पतरुकल्पकौमुदी संपूर्णतामाटीकत इति॥ commamSARAImage Relamma इति महोपाध्यायशान्तिसागरसूत्रितश्रीकल्पकौमुद्याख्यवृत्तिकलितं श्रीकल्पना समाप्तम 154 // 24 //