________________
श्रीकल्प
कौमुद्यां
अधिकरणशान्तिः
९क्षणे ॥२३४॥
न वेति" लौकैः पृष्टो, नाधुनाऽप्वहं शान्त इति जल्पन द्विजैः पङ्केहिष्कृतः, एवं पर्युषणापर्वणि क्रोधं त्यक्त्वा यो नक्षमयति स सङ्घबाह्यो भवति ॥ अत एव सापराधोऽपि चण्डप्रद्योतः साधर्मिक इतिकृत्वा उदयनराजेन मुक्तः, तत्सम्बन्धो यथा-सिन्धुसौवीरदेशे वीतभयपत्तनस्वामी महासेनादिदशमुकुटबद्धराजसेव्यमान उदयनराजो विद्युन्मालिदेवार्पितजीवत्स्वामिश्रीमहावीरप्रतिमापूजनायागतगन्धारश्रावकप्रदत्तगुटिकाभक्षणजाताद्भतरूपाया देवदत्तायाः सुवर्णगुलिकाऽपरनाम्न्या दास्या देवाधिदेवप्रतिमायाश्चापहारकं मालवदेशाधिपं चतुर्दशभूपसेवितं चण्डप्रद्योतराज रणे बद्ध्वा पश्चादागच्छन् दशपुरस्थाने वार्षिकपर्वणि उपोषितोऽभूत् , राजादिष्टसूपकारेण भोजनार्थ पृष्टः चण्डप्रद्योतः विषभीत्यामहमप्युपोषितोऽस्मीति प्रोक्तवान् , ततोऽसिन् धूर्त्तसाधर्मिकेऽप्यक्षमिते कथं मम प्रतिक्रमणं शुद्धयतीति विचार्य तं मुक्त्वा क्षमयित्वा च 'मम दासीपति'रिति पूर्वलिखिताक्षराच्छादनार्थ भाले सुवर्णपट्टे बन्धयित्वा मालवदेशो दत्तः। एवं क्षमितव्यं, न पुनः क्षुल्लककुम्भकारदृष्टान्तेन, स च यथा-कश्चित्क्षुल्लकः कर्करैर्भाण्डानि काणीकुर्वन् कुम्भकारेण निवारितो मिथ्यादुष्कृतं दत्ते, पुनः पुनस्तदेव कुर्वन्नेकदा कुलालोऽपि ककरैः कर्णमोटनं कुर्वन् वारं२ क्षुल्लकेन पीडथेऽहमित्युक्तो मिथ्यादुष्कृतं ददौ, एवमित्यतो न देयमिति ॥५८॥ श्वासावासं० इह खलु निग्गंधाण वार (अजेव) अद्यैव-पर्युषणादिने एव (कक्खडे) कर्कशः-उच्चशब्दः (कडुए) कटुको-जकारमकाररूपः (विग्गहे समुप्पजिजा) विग्रहः-कलहः समुत्पद्यते तदा (सेहे) शक्षो-लघुः (रायणि खामिज्जा, रायणिएवि सेहं खामेजा) ग्रं० १२०० ।
रानिक-वृद्धं क्षमयति, यद्यपि वृद्धः सापराधस्तथापि लघुना वृद्धः क्षमणीयः विनयधर्मत्वात् , यदि शैक्षो रत्नाधिकं वृद्धं न क्षम| यति तदा वृद्धोऽपि लघु प्रथमं क्षमयति, (खमिअवं) ततः स्वयमेव क्षमितव्यं, (खमाविअवं) क्षामयितव्यश्च परः (उवस.
||२३४॥