SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अधिकरणशान्तिः श्रीकल्पकोमुद्यां ९क्षणे ॥२३३॥ AMARRI मशक्तो व्रणयुक्तमस्तको वा तस्य केशाः कर्त्तर्या कल्पनीयाः, (पक्खिआ आरोवणा) पक्षे२ संस्तारकदवरकबन्धा मोक्तव्याः प्रतिलेखितव्याश्च, अथवाऽऽरोपणा-सर्वदेव पक्षे२ प्रायश्चित्तं ग्राह्य, वर्षासु च विशेषतः (मासिए खुरमुंडे) असमर्थेन मासे मासे | मुण्डनं कारणीयं (अद्धमासिए कत्तरिमुंडे) कर्त्तर्या च पक्षे२ गुप्तं कारणीयं, अनयोर्लोचयोः क्रमेण लघुमासगुरुमासरूपं प्राय|श्चित्तं । (छम्मासिए लोए) पाण्मासिको लोचः, (संवच्छरिए वा थेरकप्पे) स्थविराणां-वृद्धानां जराजर्जरतयाऽसामर्थ्याद् | दृष्टिरक्षार्थ वा सांवत्सरिको लोचः स्थविरकल्पे स्थितानां, अर्थात्तरुणानां चातुर्मासिक इति ॥५७॥ श्वासावासं० नो कप्पइ निग्गंथाण वार परं पज्जोसवणाओ (अहिगरणं वहत्तए) अधिकरणं-कलहः तत्करं वच-| नमप्यधिकरणं बदितुं न कल्पते (जेणं) यः कोऽपि च निग्गंथो वार (अहिगरणं वयइ) अधिकरणं वदति (से णं अकप्पेणं अजो! वयसीति वत्तवं सिआ) हे आर्य! अकल्प्येन-अनाचारेण वदसीति स वक्तव्यः स्यात् , (जेणं) यतः निग्गयो | वार (परं पज्जोसवणाओ अहिगरणं वयइ) पर्युषणादिनतोऽर्वाग् तद्दिन एव वा यदधिकरणं समुत्पन्नं तत्पर्युषणायां क्षमितव्यं, | यच्च त्वं पर्युषणातः परमधिकरणं वदसि सोऽयमकल्पः-अनाचार इति, यश्चैवं निवारितोऽपि पर्युषणाऽनन्तरं वदति (से निज्जूहि अवे सिआ) ताम्बूलिकपत्रदृष्टान्तेन स निर्वृहितव्यः-सङ्घाहिः कर्त्तव्यः, यथा ताम्बूलिकोऽन्यपत्रविनाशनभयाद्विनष्टं पत्रं बहिः | करोति तद्वदयमप्यनन्तानुबन्धिक्रोधासक्तो विनष्ट एवेत्यतो बहिरेव कर्त्तव्य इति भावः। तथाऽन्योऽपि द्विजदृष्टान्तो यथा-खेटग्रामवासिनो रुद्रनाम्नो द्विजस्य वर्षाकाले क्षेत्रं खेटयतः गलिबलिवो भृमौ पतितः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा कुपितेन हलोत्खातमृत्खण्डैराहतो मुखश्वासरोधान्मृतः, ततः पश्चात्तापं कुर्वन् मध्येग्रामं गतः, स्ववृत्तान्तं कथयन् “उपशान्तः क्रोधो ANTHALIPARNIMHARIHARIBHAUPARIRANI ॥२३३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy