________________
श्रीकल्पकौमुद्यां ९क्षणे
॥२१६ ॥
अज्जो) हे आर्य !-साधो ! प्रतिगृहाण (पच्छा तुमं) ग्लानभोजनात् पश्चाद् यदधिकं पक्वान्नादि तत् त्वं (भोक्खसि वा) भु| ञ्जीथाः (पाहिसि वा) पिबेः दुग्धादिद्रववस्तु, पिबेः स्थाने (दाहिसित्ति) पाठः, स चातीव रम्यः, अन्यसाधोर्वा दद्याः ( एवं) | गृहस्थेनैवमुक्ते ( से कप्पइ पडिगाहित्तए) 'से' तस्य तदधिकमपि प्रतिग्रहीतुं कल्पते, (नो से कप्पड़ गिलाणनीसाए | पडिगाहित्तए) न तु ग्लानार्थं ग्रहीतुं -लोलुपत्वेन स्वयं ग्रहीतुं कल्पते, ग्लानार्थं याचितं मण्डल्यां नानेयमित्यर्थः || १८ ||
* वासावासं० तत्र-(अत्थि णं) अस्ति यदेतत् (थेराणं) स्थविराणां (तह पगाराई) अनिन्दनीयानि (कुलाई) गृहाणि ( कडाई) मिथ्यात्वत्याजनेन तैरन्यैर्वा श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि (थिज्जाई) प्रीतौ दाने च स्थैर्याणि (वेसा सिआई) निश्चयेनात्र लभ्यते इति विश्वासवन्ति ( सम्मयाई) सम्मतसाधुप्रवेशानि ( बहुमयाई ) बहूनां साधूनां न त्वेकस्य द्वयोर्वा, मतानि, बहूनां वा गृहमनुष्याणां सम्मतसाधूनि (अणुमयाई ) दातुरनुमतानि, अणुः - लघुः क्षुल्लको मतो येषां सर्वसाधुसाधारणत्वात्, न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति ( भवन्ति ) भवन्ति (तत्थ) तेषु गृहेषु (नो से कप्पइ अदक्खु वइत्तए) तस्य - साधोर्मार्गणीयं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते, यथा ( अस्थि ते आउसो !) हे आयुष्मन् ! ( इमं वा) इदं वा इदं वा वस्तु विद्यते इति ?, ( से किमाहुः भंते!) तत्कुतो हेतोर्हे भदन्ताः, इति शिष्येण पृष्टे गुरुः प्राह-यतः (सड्ढी) श्रद्धावान् भाविको गृहस्थः तच्च साधुयाचितं वस्तु मूल्येन ( गिव्हइ वा ) गृह्णाति, यदि च मूल्येनापि न प्राप्नोति तदा स | गृहस्थो भावाधिक्यात् (तेणिअंपि कुज्जा) चोरयित्वाऽप्यानीय दद्यात्, कृपणगृहे तु विद्यमानमपि दृष्टमपि च न ददाति, तत्कथमसददृष्टं दद्यात् ?, तेन तत्र मार्गणे न दोषः ॥ १९ ॥
मार्गण - निषेधः
॥२१६ ॥