SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ९क्षणे ॥२१५।। | यिकाः, ग्लानत्वे वा गुरुबालवृद्धप्रमुखोपग्रहार्थं च श्रावकनिमन्त्रणाद्वा ग्राह्याः, घृतगुडतैलाख्याः सञ्चयिकास्ता ददतः श्राद्धस्य वाच्यं प्रभूतः कालोऽस्ति, ततो ग्लानादिकारणे ग्रहीष्यामः, स च वदेत् गृह्णीत, चतुर्मासकं यावत्प्रचुराः सन्ति, ततो ग्राह्याः, बालादीनां च देयाः, न पुनस्तरुणानां यद्यपि मद्यादिवर्जनं यावज्जीवमस्ति तथाऽप्यत्यन्तापवादावस्थायां बाह्यपरिभोगार्थं कदाचिद्रहणेऽपि चतुर्मासकमध्ये सर्वथा न ग्राह्याः || १७|| तत्र *वासावासं पज्जोसविआणं (अस्थेगइआणं) अस्त्येतदेकेषामित्यत्र पष्ठयाः तृतीयार्थत्वेन वैयावृत्यकरादिमिर्गुरवे ( एवं वृत्तपुखं) एवं पूर्वमुक्तं (भवइ) भवति, (अट्ठो भंते!) हे भगवन् ! विकृत्या अर्थो ( गिलाणस्स ) ग्लानस्य वर्त्तते ( से अ व एज्जा) ततः स गुरुर्वदेत् *अट्ठो (से अ पुच्छे अवो) ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो, से वइज्जा) कियता दुग्धादिविकृतिना तवार्थः ?, तेन च ग्लानेन स्वप्रमाणे कथिते स वैयावृत्यकरो गुरुपार्श्वमागत्य वदेत्- (एवइएणं अट्ठो गिलाणस्स) ग्लानस्यैतावताऽर्थः, ततो गुरुर्वक्ति - (जं से पमाणं वयइ) यत्प्रमाणं स ग्लानो वदेत् (से पमाणओ घित्तवें) तत्प्र| माणेन - तद् विकृतिजातं त्वया ग्राह्यं, (से अ विष्णवेज्जा) स च वैयावृत्यकरादिर्गृहस्थपार्वाद्विज्ञपयेत् - याचेत (से अ विन्न| वेमाणे लभेज्जा) स याचमानस्तद्वस्तु लभेत (से अ पमाणपत्ते) तच्च प्रमाणप्राप्तं - सम्पूर्ण जातं ततश्च (होउ) 'भवतु' इति | पदं इत्थमित्यर्थे, तत एतावता ( अलाहि) अन्यत् मा देहि, (इअ वत्तवं सिआ ) इति शब्दद्वयं गृहस्थं प्रति वक्तव्यं स्यात्, ततो गृहस्थो वक्ति- (से किमाहु भंते!) अथ किमर्थं सृतमिति ब्रूध्वं भदन्ताः, ततः साधुर्ब्रूते- (एवइएणं अट्ठो गिलाणस्स) एतावतैवार्थो ग्लानस्य, (सिआ णं) कदाचिदेनं साधु (एवं वयंतं) एवं वदन्तं (परो वइज्जा) परो-गृहस्थो वदेत् (पडिगा हेहि ग्लानाथ नयनविधिः ।।२१५ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy