________________
श्रीवन
खामिवृत्तं
श्रीकल्पकौमुद्यां ८क्षणे ॥२०४॥
पुष्पनिषेधे कृते पर्युषणायां सखेदं श्राद्धैर्भगवत उक्तं, ततो व्योमविद्यया माहेश्वरीपुर्यां हुताशनवने पितुमित्रमारामिकं पुष्पाणि विलोक्यन्ते इत्युपदेशं दत्वा हिमवत्पर्वते गतः, तत्र श्रीदेव्या वन्दितः, महाकमलं च तया दत्तं, ततस्तत् कमलं हुताशनवना| द्विंशतिलक्षपुष्पाणि च गृहीत्वा जृम्भकदेवकृतविमानेन महोत्सवैरागत्य श्रीजिनशासनमदीदिपत् , ततो राजाऽपि श्राद्धोऽभूत् । पुनरन्यदा श्रीवज्रः श्लेष्मप्रकोपे भोजनानन्तरं ग्रहणाय कर्णे रक्षितायाः शुण्ठ्याः प्रतिक्रमणावसरे पतने प्रमादतः स्वमृतिमासन्नां विचिन्त्यानशनार्थी सन् अग्रे द्वादशवर्षदुर्भिक्षं ज्ञात्वा लक्षमूल्योदनाद्भिक्षां यत्राहि त्वमवाप्नुयाः तदुत्तरदिनप्रभाते सुभिक्षमवबुध्येथाः इत्युक्त्वा वज्रसेनाख्यं शिष्यमुख्यमन्यत्र विहारं कारितवान् , स्वयं चं समीपवर्तिसाधुभिः सह रथावर्त्तपर्वतेऽनशनं कृत्वा दिवं गतः। तदानीं च चतुर्थ संहननं दशमं पूर्व च व्युच्छिन्नम् । अत्र किरणावलीकारा अप्येवमुदाजहः, यच्च प्रौढकर्मप्रौत्रः तुर्य संहननं व्युच्छिन्नमित्युद्दिश्य तच्चिन्त्यमिति लिखितवान् ,तद् 'दुष्कर्मावनिभिद्वजे, श्रीवजे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ॥१॥" इत्यादिशास्त्रादर्शनमूलकमवसेयं । तदनन्तरं च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्स्त्रिया ईश्वरीनाम्न्या लक्षमूल्यमन्नं कृत्वा क्षिप्यमाणं विषं गुरुवचनमुक्त्वा न्यवारयत् , प्रभाते प्रवहणैः प्रभूतधान्यागमनाजाते सुभिक्षे सभार्यो जिनदत्तः नागेन्द्र१ चन्द्र२ निर्वृति३ विद्याधर४नामसुतपरिवृतो दीक्षां गृहीतवान् , ततस्तेभ्यः स्वस्वनाम्ना शाखाः प्रवृत्ताः । * थेरे अज्जसमिए थेरे अरिहदत्ते । थेरेहिंतो णं अज्जसमिएहिंतो गोअमसगुत्तेहिंतो इत्थ णं बंभद्दीविआ साहा निग्गया। (बंभद्दीविया साहा निग्गया) इति, आभीरदेशेऽचलपुरासन्ने कन्नाबेन्नानद्योर्मध्ये ब्रह्मद्वीपे पश्चशततापसा अभूवन, तेष्वेकः पादलेपेन भूम्यानिव जलोपरि गच्छन् अहो एतस्स तपाशक्तिः न, जैनेषु इति स्वस्तुति जैननिंदां च कारयन् प्रत्यहं
||२०४॥