________________
श्रीकल्पकौमुद्यां ८क्षणे
॥२०३॥
जिए थेरे अजतावसे थेरे अजकुवेरे थेरे अज्जइसिपालिए, थेरेहिंतो णं अज्जतावसेहिंतो इत्थ णं अज्जतावसी साहा निग्गया, थेरेहिंतो णं अज्जकुबेरेहिंतो इत्थ णं अज्जकुबेरी साहा निग्गया, थेरेहिंतो णं अज्जइसिवालिएहिंतो इत्थ णं अज्जइसिवालिआ साहा निग्गया, थेरस्स अज्जसीहगिरिस्स जाईसरस्स कोसिअगुत्तस्स इमे चत्तारि थेरा अं| तेवासी अहावच्चा अभिण्णाया होत्था, तं०-थेरे धणगिरी थेरे अज्जवहरे (थेरे अब्जवइरे) त्ति, तुम्बवनग्रामवासिना साधानां सुनन्दानाम्नीं स्त्रियं मुक्त्वा धनगिरिव्यवहारिणा श्री सिंहगिरिगुरुपार्श्वे दीक्षा गृहीता, सुनन्दाजातपुत्रस्तु स्वजन्मक्षणे एव जनकस्य दीक्षां श्रुत्वा प्राप्तजातिस्मरणो जनन्या उद्वेगार्थं रुदन्नेव तिष्ठति, सुनन्दया पण्मासचया एव धनगिरियतेर्दत्तः, तेनापि सचित्तं वाचित्तं वा यन्मिलति तद्ब्राह्यमिति गोचरसमयोक्तं गुरुवचनं विचार्य स गृहीतः, तेन गुरोर्हस्ते दत्ते वज्रभारवज्ज्ञात्वा वज्रेति दत्तनामा साध्व्युपाश्रये शय्यातरीभिर्वर्त्यमानः पालनकस्थ एव एकादशाङ्गानि पठितवान्, ततस्त्रिवार्षिकः सन् जनन्या राजसमक्षं कलहे| ऽनेकसुखभक्षिकादिमिर्लोभ्यमानोऽपि धनगिरिदत्तं रजोहरणमेव गृहीतवान् ततो माताऽपि दीक्षां जग्राह । एकदा चाष्टवर्षान्ते पूर्वभवमित्र देवैरुज्जयिनीमार्गे वर्षानिवृत्तौ कूष्माण्डभिक्षा दीयमानाऽनिमिषत्वाद्देवपिण्डमकल्प्यं ज्ञात्वा न गृहीता, ततस्तैस्तुष्टैर्वैकियलब्धिर्दत्ता, पुनस्तथैव द्वितीयवेलायां घृतपूराग्रहणे आकाशगामिनी विद्या दत्ता, एवं क्रमेण श्रीभद्रगुप्ताचार्यपार्श्वे दश पूर्वाण्यधीतवान् । अथैकदा पाटलीपुरे धनश्रेष्ठिना धनकोटीभिः सह दीयमानां साध्वीभ्यो गुणान् श्रुत्वा वज्र एव मे वरोऽस्त्वितिकृतप्र|तिज्ञां रुक्मिणीनाम्नीं कन्यां प्रतिबोध्य दीक्षां ददौ, अत्र कविः - मोहाब्धिश्चुलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं, | वज्रर्षिं प्लावयेत् कथम् १ || १ || एकदा पुनर्दुर्भिक्षे सङ्घ पटे संस्थाप्य सुभिक्षापुरिकां पुरीं नीतवान्, तत्र बौद्धराजेन जिनचैत्येषु
श्रीवज्रस्वामिवृत्तं
॥२०३॥