________________
श्रीकल्पकौमुद्यां दक्षणे ।१९५॥
श्रीस्थूलभद्रवृत्तम्
तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवणम्मि वुच्छो ॥१॥" तच्छत्वा प्रतिबुद्धो रथकारो दीक्षा जग्राह । कवयोऽपि च|" गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः
॥२॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रकृतप्रचारः। कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवा|स्यहो यः ॥३॥ वेश्या रागवती सदा तदनुगा पड्भी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः। कालोऽयं जलदा| विलस्तदपि यः कामं जिगायादरात् , तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥४॥ रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरञ्चिमहेश्वराया,हा हा हताश ! मुनिनापि कथं हतस्त्वम् ? ॥५॥ श्रीनन्दिषेणरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥६॥ श्रीनेमितोऽपि शकडालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन् मोहनालयमयं तु वशी प्रविश्य ॥७॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पविन ॥८॥ अन्यदा पूर्वपाठनाय सङ्घाहूतानां श्रीगुरूणां पाटलिपुत्रानागमने पुनर्मुनिद्वारा | सङ्घाज्ञां यो न कुर्यात् तस्य को दण्ड इति सङ्घोक्ते गुरुभिरुक्तम्-स सङ्घबाह्यः कर्त्तव्यः? परं श्रीसङ्घः शिष्यानत्र प्रेषयतु यथा पाठ्यते, ततः स्थूलभद्रो दश पूर्वाणि वस्तुद्वयोनानि पठितः । इतश्च यक्षाद्याः सप्तापि साध्वीः स्वभगिनीरायान्तीत्विा सिंहरूपं चक्रे, तं दृष्ट्वा भीता निवृत्ता गुरुवचसा पुनस्तं स्वभावस्थं वन्दित्वा यक्षोवाच-श्रीयको मयैव पर्वोपवासं कारितः, स्वर्ग गतः, तत्प्रायश्चिनग्रहणार्थ सङ्घसान्निध्येन शासनदेव्या श्रीसीमन्धरस्वामिपावें नीता, तन्मुखाच्चूलाद्वयं लात्वाऽऽगताऽहमिति, ततस्ताः स्वोपा
॥१८