________________
श्रीकल्पकौमुद्यां ८क्षणे ॥१९४॥
श्रीस्थूलभद्रवृत्तम्
नगराद्राज्ञा सर्वमार्जारिकाकर्षणे कृतेऽपि सप्तमे दिने स्तन्यपानं कुर्वतो बालस्योपरिमार्जारिकाऽऽकारमुखार्गलापातेन मरणे गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र विस्तृता, ततो रोषान्मृत्वा व्यन्तरीभूयोपद्रवोत्पादनादिभिः सङ्घ उपसर्ग कुर्वन् उपसर्गहरस्तोत्रं कृत्वा गुरुभिर्निवारितः॥
* धेरस्स णं अज्जसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोअमसगोत्ते, 'अज्जथूलभद्द'त्ति, पाटलिपुरे शकडालमन्त्रिलाछलदेवीपुत्रः स्थूलभद्रो द्वादश वर्षाणि सार्द्धद्वादशसुवर्णकोटिं भुञ्जन् कोशागृहे स्थितो, नन्दराजेनाकार्य मन्त्रिपददानायाभ्यर्थितोऽपि आलोचयामीत्युक्त्वा एकान्ते गत्वा च वररुचिप्रपञ्चेन पितुर्मरणं विचिन्त्य स्वयं दीक्षां गृहीत्वाऽऽगत्य च इदमालोचितमिति शिरोऽदर्शयत् , पश्चात्सम्भृतविजयसूरिपार्श्वे व्रतान्यादाय गुर्वादेशपूर्वकं कोशागृहे चतुर्मासकं स्थितः, तत्रानेकशृङ्गारहावभावकीमपि तां प्रतिवोध्य गुरुपार्श्वमागतः सन् गुरुभिर्दुष्करदुष्करकारक इति सङ्घसमक्षमुक्तं, तच्छ्रुत्वा पूर्वमागताः सिंहगुहाऽहिबिलकूपकाष्ठस्थापिनत्रयोऽपि मुनयो दुनाः, तेषु च सिंहगुहास्थायी मुनिर्गुरुभिर्निषिद्धोऽपि स्पर्द्धया चतुर्मासके कोशागृहे गतः, तां चाद्भुतरूपां दृष्ट्वा क्षुब्धः, तया च नेपालदेशादानायितं रत्नकम्बलं खाले क्षिप्वा | प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्करकारको गुरूणा जगे॥१॥ यतःसरसिंहगुहा गेह, दृष्टिदृष्टिविषाहिभूः । चित्रशाला कूपपट्टः, कोशायास्त्रिष्वपि स्थितः ।।२।। पुप्फफलाणं च रसं सुराण मंसाण महिलियाणं च । जाणंता जे विरया ते दुक्करकारए वंदे ॥३॥ तत्प्रतिबोधिता कोशाऽपि स्ववाञ्छकं मुखेनर सन्धितबाणैर्दूरस्थानलुम्बिग्रहणकलागर्वितं रथकारं सर्पपपुञ्जस्थमूच्यग्रपुष्पोपरि नृत्यन्ती प्राह-"न दुक्करं अंबयलंबितोडनं, न दुक्करं सरिसवनच्चियाए।
॥१९४||