________________
श्रीकल्प
कौमुद्या
शय्यंभवभद्रबाहुवृत्तं
८क्षणे
॥१९३॥
श्रीप्रभवस्त्रिंशद्वर्षाणि गृहे पश्चाशद्वर्षाणि यतित्वे अशीतिवर्षाणि सर्वमायुः परिपाल्य श्रीशय्यम्भवं स्वपदे संस्थाप्य स्वर्ग गतः।। इतिप्रभवस्वरूपम्।।
*थेरस्स णं अज्जपभवस्स कच्चायणसगोत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिआ वच्छसगोत्ते, थेरस्सणं अज्जसिज्जभवस्स मणगपिउणो वच्छसगोत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगिआयणसगोत्ते॥
शय्यम्भवोऽपि साधानमुक्तनिजभार्याजातमनकाख्यपुत्रहितार्थ विहितदशवकालिकसूत्रः क्रमेण यशोभद्रं स्वपदे संस्थाप्य | श्रीवीरादष्टनवति९८वर्षेः स्वर्गगतः। यशोभद्रसूरिपि भद्रबाहुसम्भूतविजयाख्यौ शिष्यौ स्वपदे संस्थाप्य स्वगं गतः॥ ___अथ सङ्खपवाचनया स्थविरावलीमाह-संखित्तवायणाए अज्जजसभहाओ अग्गओ एवं थेरावली भणिआ,तं.थेरस्स णं अज्जजसभहस्स तुंगिआयणसगोत्तस्स अंतेवासी दुवे थेरा-थेरे संभूअविजए माढरसगोत्ते थेरे अज्जभद्दबाहू पाईणसगुत्ते, तत्र (अज्जभद्दबाहु)त्ति प्रतिष्ठानपुरे वराहमिहिरभद्रबाहुवित्रौ भ्रातरौ प्रबजितौ, भद्रबाहोराचार्यपददाने रुष्टो वराहो विग्रीभूय निमित्तादिभिर्जीवति, एकदा च राजाऽग्रे कृतयावत्कुण्डालमध्ये द्विपञ्चाशत्पलमानमत्स्यपाते तेन कथिते श्रीभद्रबाहुस्वामिभिस्तु पूर्वतो न मेघःसमेष्यति, किन्तु ईशानतः, न तृतीयप्रहरान्ते, किन्तु दिनशेषघटीषद्के, न कुण्डालकमध्ये, किन्तु अझै मध्ये बहिश्च, द्विपश्चाशत्पलमानो न, किन्तु सार्द्वकपश्चाशत्पलमान इत्युक्तं, तत्सत्यं जातं, वराहोक्तं तु मिथ्या जातं । पुनरेकदा जातराजपुत्रस्य वर्षशतायुर्वर्त्तने सर्वे लोका वर्धापनाय गुरुमिर्विना दर्शनिनोऽपि च सर्वेऽऽशीर्दानाय गताः, तती नैते व्यवहारज्ञा इति जैननिन्दायां क्रियमाणायां सप्तभिर्दिनैर्मार्जारिकातो बालस्य मृत्युर्भावीति गुरुमिरुक्तं, क्रमेण श्रुत्वा
॥१९३॥