SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ८क्षणे ॥ १९६ ॥ श्रयं जग्मुः, स्थूलभद्रोऽपि पठनायागतो, निष्कारणं विद्याप्रयुञ्जनेन वाचनाया अयोग्योऽसीत्युक्तो गुरुमिः, पुनः सङ्घाग्रहादन्यस्मै त्वया न देयेत्युक्त्वा सूत्रतो वाचना दत्तेति । *थेरस्स णं अज्जथूलभद्दस्स गोअमसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जमहागिरी एलावच्चसगोत्ते, | धेरे अज्जसुहत्थी वासिहसगोत्ते ' अज्जमहागिरि' त्ति आर्यमहागिरिर्व्युच्छिन्नस्यापि जिनकल्पस्य तुलनामकार्षीत् । (अज्ज सुहत्थि) त्ति दुर्भिक्षे व्यवहारिगृहेषु साधुभ्यो विविधां मिक्षां दीयमानां दृष्ट्रा कश्चिद्रमकः श्रीसुहस्तिसूरिशिष्येभ्यो याचमानो गुरवो जानन्तीति तैरुक्ते गुरुपार्श्वेऽप्यागत्य तथैव याचमानो लाभं ज्ञात्वा दवा च दीक्षां यथेच्छं भोजितो विसूचिकया | मृत्वा चारित्रानुमोदनादुञ्जयिन्यां श्रेणिककोणिकोदायिनवनन्दचन्द्रगुप्तबिन्दुसाराशोकश्रीणां पट्टानुक्रमेण कुणालपुत्रो जातमात्र एव पितामहदत्तराज्यस्त्रिखण्डभोक्ता सम्प्रतिनामा भूपतिरभूत् । अन्यदा रथयात्राऽर्थागत श्रीसुहस्तिसूरीन् दृष्ट्वा जातिस्मरणं प्राप्य अव्यक्तसामायिकस्य किं फलमिति पृच्छन् गुरुभिस्तत्फलं राज्यादीत्युक्ते जातप्रत्ययो दत्तोपयोगैस्तैः प्रतिबोधितः, सपादलक्षजि| नचैत्यसपाद कोटिजिनबिम्बपत्रिंशत्सहस्रजीर्णजिनचैत्योद्धारपञ्चनवतिसहस्रपित्तलमयबिम्बानेकसहस्रशालादिभिर्मण्डितां त्रिखण्ड| पृथिवीमकरोत् । अत्र किरणावल्यां सपादकोटिजिनचैत्यकारकः सम्प्रतिराज इति व्याख्यातं तत् सपादलक्षजिनबिम्बकारकः स इतिवद् ग्रन्थान्तरसंवादात् विशुद्धमिति । तथा साधुवेषधरस्त्रवण्ठपुरुषप्रेपणादिभिरनार्यदेशानपि साधुविहारयोग्यान् स्वसेवक भूपान् जैनधर्मरतांश्चकारेत्यादि । थेरस्स णं अज्जसुहत्थिस्स वासिहसगोत्तस्स दुवे थेरा सुट्ठिअसुप्प डिबद्धा कोडिअ कागंदगा (सुट्टिअसुप्पडिबुद्ध ) त्ति सुस्थितसुप्रतिबुद्धनामानौ कोटिशः सूरिमन्त्रजापात्काकन्द्यां नगर्यां जातत्वाच्च कोटि संप्रति राजवृत्तं ॥। १९६ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy