SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥ १४ ॥ | तीर्थङ्करेषु (इक्वागकुलसमुप्पण्णेहिं) इक्ष्वाकुकुलसमुत्पन्नेषु (कासवगत्तेहिं) काश्यपगोत्रेषु (दोहि अ) द्वयोश्च मुनिसुत्र - | तारिष्टनेम्योः (हरिवंसकुलसमुप्पन्नेहिं) हरिवंशकुले समुत्पन्नयोः (गोअमसगुत्ते हिं) गौतमगोत्रयोः (तेवीसाए) एतावता त्रयोविंशतौ (तित्थयरेहिं) तीर्थङ्करेषु (विइकंतेहिं ) व्यतिक्रान्तेषु (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः *चरमतित्थयरे पुवतित्थयर निद्दिट्ठे (माहणकुंडगामे नयरे) ब्राह्मणानां कुण्डः - आज्ञा यस्मिन् तस्मिन् ब्राह्मणकुण्डाभिधाने नगरे ( उस भदत्तस्स माहणस्स कोडालसगुत्तस्स) ऋषभदत्तनाम्नो ब्राह्मणस्य कोडालैः समानगोत्रस्य (भारिआए) तस्य | भार्यायाः (देवाणंदाए) देवानन्दानाम्न्या (माहणीए) ब्राह्मण्याः (जालंधर सगोत्ताए) जालन्धरैः समानगोत्र्याः (कुच्छिसि गन्भत्ताए) कुक्षो गर्भतया (वुकंते) उत्पन्नः कदा ? (पुव/वरत्तकालसमयंसि ) पूर्वरात्रापररात्रकाल समये - मध्यरात्रिसमये (हत्थुत्तराहिं नक्वत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागए) चन्द्रेण सह योगमुपागते सति (आहारवकंतीए) दिव्याहारत्यागेन, एवं ( भववकंतीए सरीरवकंतीए) भवशरीरपदद्वयमपि व्याख्येयम् ||२|| अथ यस्मिन् समये भगवानुत्पन्नस्तदा (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः ( तिण्णाणोवगए आविहोत्था) मति १ श्रुताऽवधिः ज्ञानत्रय सहि| तोऽभवत् (चइस्सामि) च्यवनकाल (जाणइ) जानाति (चयमाणे) च्यवनमानस्तु (न जाणइ) न जानाति, तत्कालस्यैकसाम| यिकत्वात् छद्मस्थज्ञानस्य त्वसङ्ख्येय समयत्वात्, (चुएमि) च्युतोऽस्मीति (जाण) जानाति । ३ । (जं रयणिं च णं) यस्यां च रात्रौ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरो (देवाणन्दाए माहणीए) देवानन्दाया ब्राह्मण्याः *जालंधरसगुत्ताए ( कुच्छिसि ) कुक्षौ (गन्भत्ताए बुकं ते) गर्भतया उत्पन्नः (तं स्यणिं च णं) तस्यां च रात्रौ (सा देवाणंदा माहणी) सा देवानन्दा श्रीवीर चरित्रे संक्षिप्तमध्यमवाचने ॥ १४ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy