SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥ १३ ॥ | (परि निधुडे) मोक्षं गतः (भयवं) भगवानिति ॥ १ ॥ अथ विस्तरवाचनया भगवतश्चरित्रं यथा *तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से) यः सः (गिम्हाणं) उष्णकालस्य (चउत्थे मासें) चतुर्थो | मासः (अट्टमे पक्खे) अष्टमः पक्षः (आसाढसुद्धे) आषाढशुक्लपक्षः (तस्स णं आसाढसुद्धस्स) तस्याषाढशुक्लपक्षस्य (छठ्ठी पक्खेणं) षष्ठयास्तिथे रात्रौ (महाविजय पुप्फुत्तर) महाविजयवत् पुष्पोत्तरनामकं (पवरपुंडरीयाओ) प्रधानेषु श्वेतकमलमित्र | अतिश्रेष्ठं महाविमानं तस्मात् (वीसंसागरोवमट्ठियाओ ) विंशतिसागरोपमस्थितिकात् (आउक्खएणं) देवायुःक्षयेण (भवखएणं) देवगतिक्षयेण (ठिक्खएणं) देवाहारस्य क्षयेण (अनंतरं) तदनन्तरं (चयं) देवसम्बन्धि शरीरं (चड़त्ता) त्यक्त्वा (इहेव जंबूदीवे दीवे) अस्मिन्नेव जम्बूद्वीपाभिधाने द्वीपे (भारहे वासे) भरतक्षेत्रे (दाहिणद्धभरहे) दक्षिणार्द्ध भरते (इमीसे) एतस्यां | समये २ रूपरसादिहानिस्वरूपायां (ओसप्पिणीए) अवसर्पिण्यां (सुसमसुसमाए) सुपमसुपमाभिधाने ( समाए विइकंताए ) चतुष्कोटाकोटिसागरोपमप्रमाणे प्रथमारके व्यतिक्रान्ते (सुसमाए समाए वकता ए) सुषमसुपमाभिधाने त्रिकोटाकोटिसागरोपमप्रमाणे द्वितीयारकेऽतिक्रान्ते (सुसमदुस्समाए बताए) सुषमदुष्पमाभिधे द्विकोटाकोटिसागरप्रमाणे तृतीयारकेऽतिक्रान्ते (दुस्समसुसमाए) दुष्पमसुषमाभिधाने चतुर्थारके (बहु वइकंताएं) बहु व्यतिक्रान्ते (सागरोवमकोडा कोडिए) किञ्चिन्यू| नैककोटाकोटि पागरोपमप्रमाणे तद्यथा - ( बायालीसाए वाससहस्सेहिं ऊणियाए) द्विचत्वारिशद्वर्षसहस्रैरूनैः (पंचहत्तरिए वासेहिं अद्धनवमेहिं मासेहिं सेसेहिं विइकंतेहिं) पुनः सार्द्धाष्टमासाधिकेषु पञ्चसप्तति ७५ वर्षेषु शेषेषु सत्सु श्रीवीरजन्म, | ततो द्विसप्तति ७२ वर्षाणि वीरायुः, ततोऽपि च सार्द्धाष्टमासाधिकैस्त्रिभिर्वर्षैश्चतुर्थारकसमाप्तिः (इकवीसाए तित्थयरेहिं) एकविंशतौ श्रीवीरचरित्रे संक्षिप्तमध्यमवाचने ॥ १३ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy