SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥१२॥ श्रीवीर चारत्र संक्षिप्तमध्यमवाचने (तेणं समएण) तस्मिन् समये-अतिसूक्ष्मकालविशेषे (समणे) श्रमणो-घोरतपस्वी (भगवं) भगवान्-समग्रेश्वर्ययुक्तः (महा| वीरे) कर्मविजयाद्यथार्थनामा वर्द्धमानस्वामी (पंचहत्थुत्तरे) हस्तोत्तराः-उत्तरफाल्गुन्यस्ताः पञ्चसु स्थानेषु यस्य सः (होत्था)| अभवत् । ननु 'पंचहत्थुत्तरे साइणा परिनि डे' इत्यनेन सूत्रेण वीरस्य षद् कल्याणकानि भवन्तीति चेन्मैवं, यतः 'पंचउत्तरासाढे | अभीइछडे' इत्येतेन ऋषभदेवस्यापि तानि षट् भवन्ति, उभयथापि सूत्रस्य समानत्वात् , तानि तु त्वया नाङ्गीक्रियन्ते, तेन यथा | राज्याभिषेकमाश्रित्य नक्षत्रसमानत्वात् तथैव सूत्ररचना, कल्याणकानि तु पञ्चेव, तथा गर्भापहारमाश्रित्य नक्षत्रसमानत्वात् मूत्ररचनाऽपि तथैव, कल्याणकानि तु पञ्चेव, तथा च देवानन्दाकुक्षाववतीर्णः प्रसूतवती च त्रिशलेति ज्ञापनाय 'पंचहत्थुत्तरे' त्ति | सूत्ररचनेति,अत्र बहु वक्तव्यं तत् श्रीकल्पकिरणावलीतो ज्ञेयम्। अथ(तंजहा)तद्यथेत्यनेन मध्यमवाचनया पश्चहस्तोत्तरत्वं कथयति (हत्थुत्तराहिं चुए) उत्तराफाल्गुनीषु देवलोकाच्युतः (चइत्ता गम्भं वक्रते) च्युक्त्वा च गर्भे व्युत्क्रान्तः-उत्पन्नः (हत्थुत्तराहिं गम्भाओ गम्भं साहरिए) उत्तरफाल्गुनीषु गर्भाद्गर्भ संहृतः, देवानन्दाकुक्षितस्त्रिशलाकुक्षौ अवतारितः (हत्थुत्तराहिं जाए) उत्तराफाल्गुनीषु जातः हत्युत्तराहिं (मुंडे भवित्ता) केशलुश्चनेन द्रव्यतः रागद्वेषादिजयेन भावतश्च मुण्डो भूत्वा (अगाराओ अणगारियं पवइए) अगाराद्-गृहानिर्गत्य अनगारिता-साधुत्वं प्राप्तः (हत्थुत्तराहिं) उत्तरफाल्गुनीषु *अणंते अनन्तप|दार्थगोचरत्वात् *अणुत्तरे सर्वोत्तम (निवाघाए) भित्तिकटादिमिरनाच्छादितं (निरावरणे) सर्वस्वावरणरहितं *कसिणे सर्वप-| दार्थसर्वपर्यायग्राहकं (पडिपुण्णे) समस्तस्वावयवसंयुक्तं (केवलवरनाणदसणे) केवलं-तहायरहितं ईदृशं यद्वरं-प्रधानं ज्ञानं| विशेषार्थावबोधरूपं दर्शनं-सामान्यावबोधरूपं च केवलज्ञानं केवलदर्शनं (समुप्पण्णे) सर्वप्रकारः उत्पन्नं (साइणा) स्वातिनक्षत्रे बEP ॥१२॥ ARATIONalll
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy