________________
श्रीऋषभनिर्वाणं
श्रीकल्पकौमुद्यां ७क्षणे ॥१८९॥
शक्रः स्वामिन उपरितनी दंष्ट्रां ईशानेन्द्र उपरितनी वामां चमरेन्द्रोऽधस्तनी दक्षिणां बलीन्द्रोऽधस्तनी वामां दंष्ट्रां च गृह्णाति, अन्ये केपि देवा जिनभक्त्या केऽपि जीतमिति केपि धर्म इतिकृत्वा शेषाङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः सर्वरत्नमयानि त्रीणि स्तूपानि कारयित्वा शक्रादयः सर्वेऽपि देवा नन्दीश्वरद्वीपेऽष्टाह्निकामहोत्सवं कृत्वा स्वस्वविमानभवनेषु गत्वा स्वस्वसभासु वज्रमयसम्पुटेषु जिनदंष्ट्राः संस्थाप्य गन्धमाल्यादिभिः पूजयन्ति ।।२२७॥ *उसभस्सणं ३ जाव सबदुक्खप्पहीणस्स तिन्नि वासा अद्धनवममासा वइकता, तओऽवि परंसागरोवमकोडाकोडी तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ विइवंता, एअम्मि समए समणे भगवं महावीरे परिनिव्वुए, तओ परं नव वाससया वइकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ।२२८। इति श्रीऋषभदेवचरित्रम् ।
Halk i nIHINiminalsIndinimuTHIMANPURPATIL HaliaFINITENALTRAILLAHIPAHIRIDIHAMPARAMITRA MAHILAAPAIKINNIHIRAN A
इति श्रीमन्महोपाध्यायश्रीधर्मसागरगणिशिष्यमुख्योपाध्यायश्रीश्रुतसागरगणिशिष्योपाध्यायश्रीशान्तिसागरगणिविरचितायां कल्पकौमुद्यां सप्तमः क्षणः समाप्तः, तथा च समाप्त
जिनचरित्ररूपप्रथमवाच्यव्याख्यानम् ।
HINMAHIPARIHARIFlimselthimadimantualll
D||१८९॥