________________
श्रीऋषमनिर्वाणमहः
श्रीकल्पकौमुद्यां ७क्षणे ॥१८८॥
यागं पाउणित्ता चउरासीई पुच्चसयसहस्साई सवाउअंपालइत्ता खीणे वेअणिजाउअनामगोत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुवइकंताए (तिहिं अद्धनवमेहि अ मासेहिं) तत्र साष्टिमासाधिकत्रिवर्षशेषे तृतीयारके (उपि अट्ठावयसेलसिहरंसि) अष्टापदपर्वतशिखरस्योपरि *दसहि अणगारसहस्सेहिं सद्धिं (चउद्दसमेणं भत्तेणं अपाणएणं) चतुर्दशभक्तपरित्यागरूपोपवासषद्केन *जोगमुवागएणं पुत्वण्हकालसमयंसि संपलिअंकनिसपणे कालगए जाव सबदुक्खप्पहीणे, दशभिरनगारसहस्रः सार्द्ध स्वामी सिद्धः, तस्मिन् समये कम्पितासनः शक्रोऽवधिना निर्वाणं ज्ञात्वा अग्रमहिषीसामानिकलोकपालादिपरिवारपरिवृतः समागत्य स्वामिशरीरं त्रिः प्रदक्षिणीकृत्य निरानन्दो निरुत्साहोऽश्रुपूर्णाक्षो नातिदूरो नात्यासन्नः कृताञ्जलिः पर्युपास्ते, एवमीशानेन्द्रादयः सर्वेऽपि देवेन्द्राः कम्पितासनाः यावत्पर्युपासते, | ततः शक्रश्चतुर्निकायदेवैनन्दनवनाद् गोशीर्षचन्दनकाष्ठानि आनाय्य एकां तीर्थकरस्य एकां गणधराणां एका शेषसाधूनां एवं | तिस्रश्चिताः कारयित्वाऽऽभियोगिकदेवैरानायितक्षीरोदजले तीर्थकरशरीरं स्नपयित्वा गोशीर्षचन्दनेनानुलिप्य हंसलक्षणपट्टशाटकं
परिधाप्य च सर्वालंकारविभूषितं करोति, एवमन्येऽपि देवा गणधरसाधुशरीराणि यावत् सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः | शक्रोऽनेकचित्रविचित्रास्तिस्रः शिविकाः कारयित्वा निरानन्दो दीनविमना अश्रुपूर्णाक्षस्तीर्थकरशरीरं शिविकायामारोपयति, अन्ये|ऽपि च देवा गणधरसाधुशरीराणि तथैव, ततः शक्रो जिनशरीरं शिविकायाश्चितायां स्थापयति, अन्येऽपि देवास्तथैव, ततः शक्रादेशादग्निकुमारा देवा निरानन्दा यावदग्निं प्रज्वालयन्ति, वायुकुमारा वायु विकुर्वन्ति, अन्येऽपि देवाः कृष्णागुरुचन्दनादिभव्य| काष्ठानि निक्षिपन्ति, भाराग्रशो मधुघृतैः सिञ्चन्ति, अस्थिशेषेषु शरीरेषु शक्राज्ञया मेघकुमारास्ताश्चिताः शीतलीकुर्वन्ति । ततः
॥१८८॥