________________
श्रीनेमिचरित्रं
श्रीकल्पकौमुद्यां ७क्षणे ॥१६९॥
चित्ताहिं नक्वत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंतेजाव जाणमाणे पासमाणे विहरइ ॥१७४॥
तत्रोजयंताद्रौ सहस्राम्रवणे नेमिनः केवलज्ञानमुत्पन्न, ततो वनपालः कृष्णं व‘पितवान् , कृष्णोऽपि तस्मै सार्द्धद्वादशकोटिं | रूप्यस्य दचा स्वयं सर्वा नेमिवन्दनाय गतः, राजीमत्यपि समागता, तत्र प्रभोर्देशनां श्रुत्वा सहस्रसंयुक्तो वरदत्तो राजा दीक्षामग्रहीद्, अनेकराजकन्यासहिता राजीमच्यपि च, कृष्णेन च राजीमत्याः स्नेहकारणं पृष्टः प्रभुः प्राह-प्रथमे भवे धनः | धनबत्यौ१ द्वितीये भवे सौधर्मे मित्रदेवौर तृतीये भवे चित्रगतिरत्नवत्यौ३ चतुर्थे भवे ब्रह्मदेवलोके मित्रदेवौ४ पञ्चमे भवे | अपराजितप्रीतिमत्यौ५ पष्ठे भवे आरणे११ स्वर्गे मित्रदेवौ६ सप्तमे भवे शङ्खयशोमत्यौ७ अष्टमे भवेऽपराजितविमाने मित्रदेवौट नवमे भवे नेमिराजीमत्यौ सञ्जातौ९, तेनास्या मयि स्नेहः, ततः प्रभुरन्यत्र विहृत्य पुनरपि गिरिनारे समवसृतः, तदा रथनेमिर्दीक्षा जग्राह । अन्यदा नेमि नत्वा रथनेमिर्मार्गे गच्छन् मेघवृष्टिबाधितो गिरिगुहां प्रविश्यैकान्ते कायोत्सर्गे स्थितः, राजी
मत्यपि च जलवृष्टया बाधिता तां गुहां प्रविष्टा, अन्धकारेण रथनेमिमजानती जलार्द्राणि वस्त्राणि उद्धावाय सर्वतश्विक्षेप, ततो | वस्त्ररहितां राजीमती दष्ट्वा कामातुरः कुलादिलजां त्यक्त्वा रथनेमिरवदत्-हे भद्रे सुन्दरि ! आगच्छ स्वेच्छया भोगान् भुक्त्वा मानुष्यं जन्म सफलं कुर्वहे, वृद्धत्वे चावां द्वावपि तपःसंयमादिकं करिष्यावः, इति कर्णविषोपममाकर्ण्य जलार्दैर्वस्त्रैः शरीरमाच्छाद्य सत्त्वमालम्ब्य च महासती स्पष्टमभाषिष्ट-हे महानुभाव ! तव किमिदं कर्त्तव्यं ?, दुर्गतिकारणं सावधयोगं त्यक्त्वा दीक्षां गृहीत्वा पुनस्तं वाञ्छन् किं न लञ्जसे ?, अगन्धनकुलोत्पन्नास्वियंञ्चः सास्तेऽपि वान्तं नेच्छन्ति, तेभ्योऽपि किं त्वं नीचोऽसि ?, कपर्दिकाकृते कोटि मा हारय, तस्माद्धैर्यमङ्गीकृत्य शुद्धं धर्ममाचरेत्यादिवचनैः प्रतिबोधितः स्त्रीजातिष्वपीयं धन्या, अहं पुरुषोऽपि
॥१६९॥