________________
MUSA
श्रीकल्पकौमुद्यां
७क्षणे ॥१६६॥
|श्रीनेमि
चरित्रं
सुरकुमारः ? किं मूर्तिमान पुण्यप्राग्भारः? इति, राजीमत्या मनोऽभिप्रायं ज्ञात्वा मृगलोचना सप्रीतिहासं वक्ति-हे हले! सकलगुणसम्पूर्णेऽप्यस्मिन् वरेऽस्त्येकं दृषणं, परं वरार्थिन्यां राजीमत्यां शृण्वन्त्यां कथं वक्तुं शक्यते ?, चन्द्राननाऽपि हे सखि ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवोचितं, गजीमत्यपि मध्यस्थत्वं दर्शयन्ती-हे सख्यौ यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसम्पूर्णेऽस्मिन् वरे दूषणं दुग्धमध्यात् पूतरकर्षणमिवासम्भाव्यमेव, ततस्ताभ्यां सविनोदमुक्तं -'हे सखि! राजीमति ! वरे प्रथमं गौरत्वं विलोक्यते, अपरे गुणास्तु प्रस्तावे ज्ञायन्ते, तद्गौरत्वं तु कन्जलसदृशमेव, राजीमती सेय सख्यौ प्रत्याह-अद्य यावधुवां चतुरे ज्ञाते, सम्प्रति तु विपरीते जाते, यदेतत् समग्रगुणकारणं श्यामलत्वं भूषणं तद्दषणत्वेनोक्तं, शृणुतं तावत्केवलगौरत्वे गुणान् दोषाँश्च, तद्यथा-भूमिश्चित्रवल्ली अगुरुः कस्तूरिका मेघः कनीनिका केशाः कषपट्टः मपी रात्रिरेते कृष्णपदार्था महााः , कर्पूरेऽङ्गारश्चन्द्रे चिह्न कनीनिका कज्जलं च नयनयोः भोज्ये मरीचं चित्रे रेखाः इति कृष्णपदार्थाश्रयणे गुणाः, लवणं क्षारं दाहकं हिमं अतिगौरशरीरो रोगी चूर्णः परवशगुणः, एते केवलगौरत्वेऽवगुणाः, एवं परस्परं तासां जल्पने जायमाने कोलाहलस्वरं श्रुत्वा कोऽयं दारुणः स्वर ? इति नेमिना पृष्टः सारथिः प्राह-युष्मद्विवाहे गौरवार्थमेकत्रीकृतपशूनामयमार्तस्वरः, इति श्रुत्वा नेमिरचिन्तयत्-'धिग् विवाहोत्सवं यदेतेषां जीवानां वधः क्रियते, इतश्च-हे सरव्यौ ! मम दक्षिणं नेत्रं स्फुरतीति जल्पन्तीं राजीमती प्रति सरव्यौ प्रतिहतममङ्गलमिति थूत्कारं कुरुतो, नेमिस्तु-हे सारथे! स्थमितो वालय, अत्रान्तरे नेमिं पश्यनेको हरिणो निजग्रीवां हरिणीग्रीवोपरि मुक्त्वा वक्ति-हे स्वामिन् ! अस्माकं मरणादपि प्रियाविरहो दुःसहोऽस्ति तेनेमां मम हृदयवल्लभां हरिणीं मा मारय, एवं प्रसन्नवदन त्रिभुवनस्वामिन् ! अकारणबन्धो ! दयापर त्वं वनवासिनस्तृणभक्षिणो निझर