________________
श्रीकल्पकौमुद्यां ६क्षणे
॥१५६॥
*समणस्स भगवओ महावीरस्स जाव सङ्घदुक्खप्पहीणस्स (नव वाससयाई विइयंताई) श्रीमहावीरनिर्वाणाभव वर्षशतान्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे ) अयमशीति९८० तमः संवत्सरः पुस्तकवाचनायाः (काले गच्छइ) कालो गच्छति-वर्त्तते, अस्मिन् संवत्सरे सिद्धान्तं पुस्तके लिखद्भिर्देवर्द्धिगणिक्षमाश्रमणैः श्रीकल्पोऽपि पुस्तके लिखितः, (वायणंतरे पुण अयं) वाचनान्तरे पुनरयं (तेणउए संवच्छ रे ) त्रिनवत्यधिक| नवशतमितः संवत्सरः (काले गच्छइ इति दीसइ) कालो गच्छतीति दृश्यते, अत्र बहु वक्तव्यं विचार्य, बहुश्रुतेभ्यो बोध्यं, | परमेतत्सूत्रं पुस्तक लिखनसभासमक्षवाचनकालज्ञापनाय तैरेव लिखितमिति सम्भाव्यते ॥ १४८ ॥ इति श्रीमहावीरचरित्रम् ॥
इति श्रीमन्महोपाध्याय श्रीधर्मसागरगणि शिष्य मुख्योपाध्यायश्रीश्रुतसागरगणिशिष्योपाध्यायश्री शान्तिसागरगणिविरचितायां कल्पकौमुद्यां षष्ठः क्षणः समाप्तः ॥
श्रीवीरचरित्रे
श्रीवीरनि
वणवाच
नान्तर
कालः
।।१५६ ।।