________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१४५॥
श्रीवीर
चरित्रे गणधर
वादः
गतकाले यच्च भाव्यमनागतकाले, तत् सर्व इदं पुरुष एव-आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, एतेन वचनेन यन्मनुष्यदेवतियङ्नारकपर्वतभूम्यादिकं चेतनाचेतनस्वरूपं प्रत्यक्षं वस्तु दृश्यते तत् सर्वमात्मैवेति, कर्मसद्भावे च किं प्रमाणं ?, अपिच-अमूर्तस्या| त्मनो मूर्तेन कर्मणा सह कथमनुग्रहोपघातौ स्यातां ?, न ह्याकाशस्य चन्दनखड्गादिभिर्मण्डनखण्डनादिकं सम्भवति, वेदपदार्थस्तव चित्ते वर्त्तते, परं नायमर्थः समर्थः, यतः त्रिविधानि वेदपदानि-कानिचिद् विधिप्ररूपकाणि, यथा स्वर्गकामो अग्निष्टोमेन यजेतेत्यादीनि,कानिचिदनुवादपराणि यथा द्वादश मासाः संवत्सर इत्यादीनि,कानिचित् स्तुतिपराणि,यथा 'इदं पुरुष एवे'त्यादीनि,ततोऽनेन | वेदपदेन पुरुषस्य महिमैव प्रतिपाद्यते, नतु कर्माद्यभावः,यथा 'जले विष्णु रित्यादिना विष्णोर्महिमा प्रतिपाद्यते,न त्वन्यवस्तुनिषेधः, | यच्चोक्तं-अमूर्तस्यात्मनो मूर्तकर्मणा कथमनुग्रहादीति, तन्न युक्तं, यतोऽमूर्तस्यापि आत्मनः मद्यादिनोपघातः ब्राहम्याद्यौषधेन | चानुग्रहो दृश्यते एव, किश्च-एकः स्वामी एकः सेवकः एकः सुभगः एको दुर्भगः एकः सुखी एको दुःखीत्यादि जगद्वैचित्र्यं कर्म
विना कथं सम्भवति? । प्रमाणोपेतं वचनं श्रुत्वोच्छिन्नसंशयः पञ्चशत ५०० छात्रैः सह प्रबजित इति द्वितियोगणधरः ॥२॥ |एवं एकादशापि द्विजोत्तमाः वीरमुखाद्वेदपदार्थान् श्रुत्वा प्रतिबुद्धाः प्रबजितास्तत्परिवारभूताश्चत्वारिंशच्छत्तानि ४४०० द्विजा अपि । | अत्र मुख्यानामेकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्गचतुर्दशपूर्वरचना, गणधरपदप्रतिष्ठा च यथा-द्वादशाङ्गीरचनाऽनन्तरं प्रभुस्तेषां तदनुज्ञा करोति, शक्रश्च दिव्यचूर्णभृतं वज्रमयं स्थालं गृहीत्वा स्वामिनः समीपवर्ती भवति, ततः प्रभू रत्नसिंहासनादुत्थाय सम्पूर्णां चूर्णमुष्टिं गृह्णाति, ततो गौतमादय एकादशापि गणधराः किश्चिदवनतगात्राः पतया तिष्ठन्ति, देवा अपि वादित्रगीतनृत्यादिशब्दान् विनिवार्य सावधानतया शृण्वन्ति,ततः प्रभुस्तावद्भणति-गौतमस्य द्रव्यगुणपर्यायैस्तीर्थमनुजानामीति,चूर्णाश्च तन्म
॥१४५॥