________________
श्री कल्पकौमुद्यां
६क्षणे ॥१४४॥
तत्रैव सन्ध्याभ्रराग इव लयं प्राप्नोति, तस्मादतिरिक्तः पृथिव्यादिभ्यो ज्ञ आत्मा नास्ति, अत एव पृथिव्याद्यतिरिक्तस्य आत्मनोऽभावात् न प्रेत्य संज्ञाऽस्तीति, कोऽर्थः ? - परलोके गतः परलोकादागतः इत्यादिसंज्ञा नास्तीत्यर्थः, अयमर्थस्तव चेतसि भासते, तेनात्मानं नाङ्गीकुरुषे, परमयमर्थो न युक्तः, यतः शृणु तावदेतस्यार्थं - विज्ञानं साकारनिराकारोपयोगात्मकं ततोऽनन्यत्वादात्मा | विज्ञानघनः स एवैतेभ्यः - पृथिव्यादिभ्यः उत्पद्य, घटादिवस्तुविषयकज्ञानवान् हि जीवो घटादेः कथंचिदुत्पद्यते, ज्ञानस्य स|विषयक स्वेन घटादिसापेक्षत्वात्, पुनस्तान्येव नाम-तेषु पृथिव्यादिषु सान्तरितेषु गतेषु वा, जीवोऽपि घटादिज्ञानादनु विनश्यति - उपरमते, अत एव न प्रेत्य संज्ञावांस्तिष्ठति, अन्यज्ञानतया सामान्यज्ञानतया परिणमनाद्वेति जीवसत्ता एतद्वेद पदार्थतः सिद्धा, तथा 'सवै अयमात्मा ज्ञानमय' इत्यादिना, तथा 'ददद' एतस्यार्थो-दमो दानं दया चेति दकारत्रयं यो वेत्ति स जीव इत्यादिनाऽपि, विद्यमानभोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत् इत्याद्यनुमानेनापि, तथा “क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे। चन्द्रकान्ते सुधा यद्वत्तथाऽऽत्माऽङ्गगतः पृथक् ॥ १ ॥ इति श्री वीरमुखाजीवव्यवस्थापक वेदपदार्थं श्रुत्वा प्रतिबुद्धो गौतमः पश्चशतच्छात्रैः | सह प्रव्रजितः ॥ इति गौतमगणधरवादः १ ॥
अथेन्द्रभूतिं प्रव्रजितं श्रुत्वा अग्निभूतिर्द्वितीयो भ्राता इति चिन्तयामास कदाचित् पर्वतो द्रवीभवति हिममपि प्रज्वलेत् वह्निः शीतः स्यात् वायुः स्थिरीभवेत् मेरुरपि चलेत्, न तु मद्भ्राता केनापि जीयते, ततो लोकेभ्यो वीरजितं वीरपार्श्वे प्रव्रजितं च निश्चित्य अचिन्तयत्-यजित्वा धूर्त वीरं सहोदरमानयामि, तत्र आगच्छ भेव वीरेणाभाषितः सः - हे अग्निभूते! तव कर्मसन्देहो वर्तते, परं वेदपदार्थं कथं न सम्यग् विचारयसि ?, स च वेदः 'पुरुषवेदं निं सर्वं यद्भूतं यच्च भाव्यं' इत्यादि, तत्र 'ग्निं' इति वाक्यालङ्कारे यद्भूतं
श्रीवीरचरित्रे
गणधर
वादः
॥१४४॥