________________
श्रीकल्प
श्रीवीर
HAPATRA
चरित्रे
कौमुद्यां ६क्षणे ॥१४३॥
गणधरवादः
"तावद्गर्जति खद्योतस्तावद्गर्जति चन्द्रमाः। उदिते च सहस्रांसौ, न खद्योतो न चन्द्रमाः ॥१॥ तथा-लक्षणे मम दक्षत्वं,साहित्ये संहिता मतिः। तर्के कर्कशताऽत्यर्थ, व शास्त्रे नास्ति मे श्रमः ॥१॥" इत्यादि, एवं च विचारयन् “वीरं निरीक्ष्य सोपानस्थितो ध्यायति विस्मितः। किं ब्रह्मा? शङ्करः किं वा?, किं विष्णुब्रम वा किमु ? ॥१॥ चन्द्रः किं न स यत् कलङ्कसहितः सूर्योऽथवा ? नो स यत् , तीक्ष्णांशुः किमु वासवो? न स सहस्राक्षो यतः कथ्यते।मेरुः किं? न स यनिसर्गकठिनः कल्पद्रुमोऽसौ? न वा, नो स्याचिन्तितमात्रदः स हि जने हुं वर्द्धमानोऽप्यसौ ॥४॥ आदित्यमिव दुष्प्रेक्षं, समुद्रमिव दुस्तरम् । बीजाक्षरमिवावाच्यं, दृष्ट्वा वीरं | महोदयम् ।।५।। गौतमश्चिन्तयति-मदान्धेन दुर्बुद्धिना च मयाऽविचार(रि) तं कृतं येन कीलिकाहेतोः प्रासादपातनं सूत्रार्थ हारत्रोटनं ठिक्करीकृते कामकुम्भभंजनं भस्मार्थ चन्दनदहनं कोऽपि मृों वाञ्छति मया तत् सत्यापित,तेनात्र महत्त्वं कथं रक्षणीयं?, इतो निवर्त्तनं वादकरणं च द्वयमपीतो व्याघ्र इतो नदीति न्यायं प्राप्तो,यावत्तिष्ठति तावत् सुधामधुरया वाचा नामगोत्रकथनपूर्वकं प्रभुणाऽऽभाषितो-हे इन्द्रभूते! गौतम! त्वं सुखेनागतः?, इत्युक्ते चिन्तयति-मम नानापि जानाति, अथवा जगत्रयविख्यातोऽहं, को मां न जानाति ?, सुखागमनप्रश्नमिश्रवचनेन न सन्तुष्यामि, यतो न तत् कपित्थं यद्वातेन पतति, यदि मम मनःसन्देहं कथयति तदाऽमुं सर्वज्ञ जानामीति चिन्तयन्तं पुनः प्रभुः प्रोचे-भो जीवोऽस्ति न वेति तव चित्ते सन्देहोऽस्ति, परं वेदपदार्थ विपरीततया जानासि, तेषामर्थ शृणु-"समुद्रो मथ्यमानः किं?,गङ्गापूरोऽथवा किमु । आदिब्रह्मध्वनिः किंवा?, वीरदेवध्वनिर्बभौ |॥१॥ वेदपदानि यथा-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्तीति,अस्यार्थः-विज्ञानघनः| इष्टप्रवृत्यनिष्टपरिहारादिमानात्मा भूतेभ्यः-पृथिव्यतेजोवाय्वाकाशेभ्यः समुत्थाय-नागवल्ल्यादिभ्यो राग इव उत्पद्य पुनस्तान्येव
P ALITALLIARPURISMATIPRITAINMETHIBAPARISHINILAPTAIN
॥१४३॥