SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१३९॥ दुच्चे मासे) उष्णतर्द्वितीयो मासः (चउत्थे पक्खे वइसाहसुद्धे) चतुर्थः पक्षः वैशाखशुद्धः (तस्स णं वइसाहसुद्धस्स) तस्य वैशाखशुद्धस्य ( दसमीपक्खेणं) दशम्यां तिथौ (पाईणगामिणीए ) पूर्वदिग्गामिन्यां (छायाए पोरिसीए) छायायां पाश्चात्यपौरुप्यां (अभिनिविट्टाए) जातायां ( पमाणपत्ताए ) न्यूनाधिकाभावात् प्रमाणप्राप्तायां (सुवएणं दिवसेणं) सुव्रताभिधे दिवसे (विजएणं मुहुत्तेणं) विजयाख्ये मुहूर्ते (जंभियगामस्स नगरस्स) जृम्भिकग्रामनाम्नो नगरस्य (बहिआ उज्जुवालियाए) बाह्यप्रदेशे ऋजुवालुकाया (नईए तीरे) नद्यास्तटे (वेयावत्तस्स) जीर्णस्य विजयावर्त्तनामकस्य (चेइयस्स) चैत्यस्य (अदूरसामंते) नातिदूरे नातिसमीपे योग्यस्थाने ( सामागस्स गाहावईस्स) कौटुम्बिकश्यामाकनाम्नो गृहपतेः ( कट्टकरणंसि) क्षेत्रे ( सालपायवस्स अहे ) सालवृक्षस्याधस्तात् ( गोदोहियाए) गोदोहिकाकस्य (उक्कुडुयनिसिज्जाए) उत्कुटिकाभिधानया निषद्यया - आसनेन ( आयावणाए ) आतापनया ( आयावेमाणस्स) आतप्यमानस्य (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेनापानकेन (हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं) उत्तरफाल्गुनी नक्षत्रेण सह चन्द्रयोगमुपागते सति ( झाणंतरिआए वद्यमाणस्स) चतुर्भेदशुक्लध्यानस्याद्यभेदद्वये ध्याते अवशिष्टे च भेदद्वये, एवं ध्यानमध्यभागे वर्त्तमानस्य भगवतः अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे (केवलवरनाणदंसणे समुप्पन्ने) केवलज्ञानदर्शनमुत्पन्नम्, तेणं कालेणं तेणं समएणं भगवं महावीरे (अरहा जाए) अष्टमहाप्रातिहार्ययोग्यो जातः (जिणे) रागद्वेषजेता (केवली ) केवलज्ञानयुक्तः (सवन्नू ) सर्वज्ञः (सङ्घदरिसी) सर्वदर्शी (सदेवमणुआसुरस्स) | देवमनुष्यासुरसहितस्य (लोगस्स परिआयं ) लोकस्य पर्यायान् ( जाणइ) ज्ञानेन विशेषतो जानाति, दर्शनेन च सामान्यतः श्रीवीरचरित्रे श्री वीरस्य कैवल्यं ॥१३९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy