________________
श्री कल्पकौमुद्यां ६क्षणे
॥१३६॥
| फलैषिणः ॥१॥ (कुंजरे इव सोंडीरे) हस्तीव कर्मशत्रुसैन्यं प्रति सूरः ( वसहे इव जायथामे) वृषभ इव अङ्गीकृतमहाव्रत| भारवहने जातबलः (सीहे इव दुद्धरिसे) परीपहादिश्वापदैरजेयः (मंदिरे इव निप्पकंपे) मेरुपर्वत इवोपसर्गवातैर चलचित्तः (सागरे इव गंभीरे) समुद्र इव गम्भीरो, हर्षशौककारणैरक्षुब्धः ( चंदे इव सोमलेसे) चन्द्र इव सौम्यलेश्यः, परसन्ताप| रहितत्वात् (सूरे इव दित्ततेए) सूर्य इव दीप्ततेजाः, द्रव्यतो देहकान्त्या भावतो ज्ञानेन (जच्चकणगं व जायरूवे) जात्यसुवर्ण| मित्र रागादिमलापगमात् जातस्वरूपः (वसुंधरा इव सबफासविसहे) पृथिवीव सर्वान् शीतोष्णादीन् स्पर्शान् विशेषेण सहते (सुहुहुयासणे इव तेयसा जलते) घृतादिभिः सिक्ताग्निरिव तेजसा ज्ञानेन तपसा वा ज्वलन् दीप्यमानः *इमेसि पयाणं दुन्नि संगहणिगाहाओ - 'कंसे संखे जीवे गगणे वाऊ य सरयसलिले अ । पुक्खरपत्ते कुम्मे विहगे खग्गे य भारंडे || १|| कुंजर वसहे सीहे नगराया चैव सागरमखोहे । चंदे सूरे कणगे वसुंधरा चेव हूयवहे ||२||” (नत्थि णं | तस्स भगवंतस्स कत्थइ पडिबंधे) नास्तीत्येवं यत्तस्य भगवतः कुत्रचिदपि प्रतिबन्धो भवति (से अ पडिबंधे चउविहे | पन्नत्ते ) स प्रतिबन्धचतुष्प्रकारः कथितः (तंजहा) तद्यथा - ( दवओ खित्तओ कालओ भावओ) द्रव्यतः क्षेत्रतः कालतो भावतश्च, ( दवओ णं सचित्ताचित्तमीसेसु दवेसु) तत्र स्त्र्यादिसचित्तभूषणाद्यच्चित्त अलङ्कृतस्त्र्यादिमिश्रभेदात्रिविधेषु द्रव्येषु ( खित्तओ णं) क्षेत्रतः (गामे वा नगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा) ग्रामे नगरे अरण्ये क्षेत्रे खले गृहे अंगणे वा, ग्रामादयः प्रसिद्धाः (नहे वा) आकाशे (कालओ णं) कालतो(समए वा आवलियाए वा आणापाणुए वा धोवे वा खणे वा लवे वा) निर्विभागे सर्वसूक्ष्मे समये असङ्ख्यसमयरूपावलिकायां उच्छ्रासनिःश्वासरूपौ आनप्राणौ
श्रीवीरचरित्रे
महावीरस्थानगारता
॥१३६॥